पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/384

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारियात्रश्च सप्तते कुलपवंताः' । मुखरुध्वभागावगालता स्रवन्ती धातुतराड्रणी गैरिकादिधातुनदी तस्या मिषेण व्याजेनाऽजस्रं निरन्तरमस्रं रुधिरं ‘रुधिरेऽसृक्लोहितास्ररक्तक्षतजशोणितम्' इत्यमरः । मुमुचुरिव संतत्यजुरिव बवमुरिवेत्यर्थः । गजसंघट्टनात्ताडिताः कुलपर्वता उपरिष्टात्पतगैरिकादिरक्त'धातुनदीमिषेण मुखैरस्रं निरन्तरं ववमुरिवेति भावः । अत्रोत्प्रेक्षालङ्कारः । भाषा अडकुश की परवाह न कर, वेग से दौड़ने वाले इन हाथियों से, तट भाग में टक्कर खाए हुए, अत एव चुटीले महेन्द्रादि कुलपर्वत, ऊपर से बहने वाली लाल रंग की गेरू आदि धातुओं की नदी के बहाने से मानों मुखों से लगातार खून की कय कर रहे थे । निजदशनयुगैकबद्धवासां श्रियमिव कर्तमुपोढकौतुका ये। स्मरणशरणपङ्कजानि चक्रुः सततममर्षपुरःसराः सरांसि ॥४२॥ श्रियं निजदशनयुगैकबद्धवासां कर्तुम् इव उपोढकौतुकाः अमर्षपुरस्सराः ये सरांसि सततं स्मरणशरणपङ्कजानि चक्रुः । व्याख्या श्रियं लक्ष्मीं निजं स्वीयं यद्दशनयोर्दन्तयोर्युगं युगलमेवैकं केबलं तस्मिन् ‘बद्धो दृढतया कृतो वास: संस्थितिर्यया सा तां कतुमिव विधातुमिवोपोढ संजात कौतुकं कुतूहलं येषां ते ‘कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्' इत्यमरः ॥ अमर्षः क्रोधः पुरस्सरो मुख्यो येषां ते ये सोमदेवनृपस्य गजाः सरांसि तडागान् सततं निरन्तरं स्मरणं स्मृतिरेव शरणं रक्षास्थानं येषां तानि स्मृतिशरणानि स्मृतिगोचराणि न तु लोके प्रत्यक्षविषयाणि पङ्कजानि कमलानि येषु तानि