पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/381

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विधिलिखितमिदं कुटुम्बमध्ये नृपतिपदं समुपैति कधिदेव । इति हृदि न विचारयन्ति भूपाः कुलमपि निर्दलयन्ति राज्यलुब्धाः ३७ अन्वयः भूपाः, इदं विधिलिखितं (यत्) कुटुम्बमध्ये कश्चित् एव नृपतिपदं समुपैति, इति हृदि न विचारयन्ति (किन्तु) राज्यलुब्धाः (सन्तः) कुलम् अपि निर्दलयांन्त। व्याख्य भूपा राजान, इर्द वक्ष्यमाण वस्तु विधिना ब्रह्मणा लिखित लेखद्वारा संघटितं, यतो लिखितमेव निश्चितं भवति न तु भाषितम् । यत् कुटुम्बमध्ये कश्चिदेव भाग्यशाली जनो नृणां पतिर्नृपतिः स्वामी तस्य पदं स्थानं राज्यपदवीं समुपैति संप्राप्नोतीति विषयं हृदि मानसे न विचारयन्ति न परिशीलयन्ति किन्तु राज्ये राजपदे लुब्धा लोलुपास्सन्तः कुलमपि स्ववंशमपि निर्दलयन्ति विनाशयन्ति । स्वायोग्यतया स्वकीतिमन्तमपि बंशमपकीत्य कलङ्कयन्तीति भावः । भाषा राजा लोग यह नहीं विचार करते कि यह ब्रह्मा का लेख है कि कुल में (सब नहीं, किन्तु) कोई ही राजपद को प्राप्त करने योग्य होता है। किन्तु राज्य के लोभी बनकर ये राजा लोग अपने कुल को भी कलङ्कित कर डालते हैं। अनुचितममुना किमग्रजस्य व्यवसितमुन्नतचेतसा यदस्मिन् । ग्रपकरणधिया चकार सर्निध कुलरिपुणा सह चोलराजिगेन ॥३८॥