पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/379

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एते क्षितीशाः अविरततरुणीसहस्रमध्यस्थितिविगलत्पुरुषव्रताः इव प्रतिपदम् अतिकातराः (सन्तः) समन्ततः अपि भयं परिकलयन्ति । লক্সান্ডয়া एते इमे दुष्टाः क्षितीशा राजानोऽविरतं सन्ततं तरुणीनां युवतीनां सहस्रं तस्य मध्ये या स्थितिनिवासस्तया विगलत्परिपतत्पुरुषाणां नराणां व्रतं धर्मः पौरुषमित्यर्थः । येषां ते निरन्तरयुवतीसहस्रमध्यस्थित्या नश्यत्पौरुषा इव प्रतिपदं प्रतिक्षणमतिकतरा अत्यन्तसंभीतास्सन्तः समन्ततोऽपि परितोऽपि भयं भीर्ति परिकलयन्ति परिपश्यन्ति विचारयन्तीत्यर्थ: । अत्र तरुणीमध्यस्थितेर्नष्टपुरुषबले हेतुत्वेन संभावनादुत्प्रेक्षालङ्कारः । 饿 भाषा सदैव हजारों युवतियों के बीच में रहने से मानों जिनका पुरुषत्व ही नष्ट हो गया है, ऐसे ये दुष्ट राजा लोग, पद पद पर अत्यन्त कायर होकर, चारों ओर भय ही देखते हैं। अर्थात् उनको चारों ओर से भय की ही प्रतीति होती है। अभिसरणपरा सदा वराकी समरमहाध्वसु रक्तपङ्किलेषु । हृदि धरणिभुजामियं नृपश्रीर्निहितपदैव कलङ्कमातनोति ॥३५॥ अन्वयः रतपड़िलेषु समरमहाध्वसु सदा अभिसरणपरा इय वराकी नृपश्री: धरणिभुजा हृदि निहितपदा एव कलङ्कम् आतनोति । व्याख्या रक्तेन रुधिरेण पङ्किलाः कर्दमयुक्तास्तेषु समरा युद्धस्थलान्येव महाध्वानो WA