पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/376

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुबुद्ध आ जाता ह जिसस राजलक्ष्मी, समुद्र के किनारे के पवता स टकराई हुई नाव के समान शीघ्र नष्ट हो जाती है। ' व्रतमिदमिह शस्त्रदेवतानां दृढमधुनापि कलौ निरङ्कुशेऽपि । अविनयपथवर्तिनं यदेताः प्रबलमपि प्रधनेषु घश्चयन्ति ॥३०॥

इह निरङ्कुशे अपि कलौ शस्रदेवतानाम् इदं दृढं व्रतं यत् एताः अधुना अपि अविनयपथवर्तिनँ प्रबलम् अपि प्रधनेषु वज्रयन्ति । व्याख्या इहाऽस्मिन् जगति निरङ्कुशेऽपि निष्प्रतिबन्धेऽपि कलौ कलियुगे शस्त्राणामायुधानां देवतास्तदधिष्ठातृदेवतास्तेषामधुनाऽपि साम्प्रतमपीदमेतद् दृढं निश्चितं व्नतं नियमो यद्यस्मात्कारणादेताः शस्त्राधिष्ठातृदेवता अविनयस्यौद्धत्यस्य पन्था मार्गोऽविनयपथस्तस्मिन् वर्तत इत्यविनयपथवतीं तं कुमार्गगामिनं प्रबलमपि प्रकृष्टबलवन्तं शूरमपि प्रधनेषु युद्धेषु ‘युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः । वञ्चयन्ति नाऽनुगृह्णन्ति तत्समीहितं नोपनयन्ति ॥ काव्य लिङ्गमलङ्कारः । भाषा इस जगत् में इस निरडकुश कलियुग में भी, शस्त्रों की अधिष्ठातृ देवताओं का सम्प्रति भी यह निश्चित नियम है कि वे अनीतिमागरूिढ बलवान् से बलवान् को भी युद्धों में धोखा देती हैं। अर्थात् उनका साथ नहीं देती। इतिमुषितधियः श्रिया प्रयान्त्या रभसवशादविचिन्त्य दग्धभूपाः।