पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/370

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देव न काव्चा नगरों के आस पास के प्रदशा क विहार म कुछ दिन बिताकर राजेन्द्रचोल द्वारा बसाए हुए गाङ्गकुण्ड चोल पुर को देखा अर्थात् वहाँ गया । श्लोकद्वयेन गाज्ञकुण्डचोलपुरं वर्णयति कविः द्रविडनरपतिप्रतापभीत्या किमपि गते पयसां निधी परस्तात्। यदविहितविवाहमङ्गलाया बहिरिव निर्गतमादिधाम लक्ष्म्याः॥२२॥ अन्यः यत् पयसा निधी द्रविडनरपतिप्रतापभीत्या किमपि परस्तात् गते (सति) अविहितविवाहमङ्गलायाः लक्ष्म्याः अादिधाम बहिः निर्गतम् इव । व्याख्या यद्गाङ्गकुण्डचोलपुरं पयसां जलानां निधावाकरे समुद्रे द्रविड़स्य नरपतिर्ने पस्तस्य प्रतापः प्रभावस्तस्मान्ड्रीतिर्भयं तया चोलदेशनृपभयेन किमपि किञ्चिदपि परस्तात् पृष्ठभागे गते प्राप्ते सति स्वस्थानं विमुच्य कित्र्चित्पृष्ठप्रदेशमपसृते सति न विहितमविहितमसम्पादितं विवाहमङ्गलं पाणिग्रहणोत्सवो यस्याः सा तस्या अपरिणीताया लक्ष्म्याः श्रिय अादिधाम प्रथमगृहं बहिनिर्गतमिव समुद्राद्वहिरागतमिव । गाङ्गकुण्डचोलपुरस्य लक्ष्मीप्रथमगृहत्वेनोत्प्रेत्क्षणादपरिमितसम्पक्तिशालित्वञ्च द्योत्यते । अत्रोत्प्रेक्षालङ्कारः । মামা जो गाज्ञकुण्डचोलपुर द्रविड देश के राजा के प्रताप के भय से (डरकर) समुद्रके कुछ पीछे सरक जाने से, अविवाहित अवस्था में समुद्र में लक्ष्मी के रहने का आदिनिवास स्थान ही मानों बाहर निकल आया था ।