पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/369

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3주ET; कनकसदनवेदिकान्तरालम्रथितपद असौ क्षितिपालनन्दनः सुरशिखरितटीविटङ्कमध्यप्रणयिनम् उष्णकरं निराचकार । व्याख्या कनकस्य सुवर्णस्य यत्सदनं गृहं तस्य वेदिका समुपवेशनाय परिष्कृता भूमिः ‘वेदिः परिष्कृता भूमिः' इत्यमरः । तस्या अन्तरालं मध्यं ‘अभ्यन्तरं त्वन्तरालम्' इत्यमरः । तस्मिन् ग्रथितं विहितं पदं चरणं येन स असावयं क्षितिपालस्याऽऽहवमल्लदेवस्य नन्दनः कुमारो विक्रमाङ्कदेवः सुराणां देवानां शिखरी पर्वतस्सुवर्णाद्रिः सुमेरुस्तस्य तटी प्रान्तभाग एव विटजुमुन्नतस्थानं तस्य मध्यं मध्यभागस्तस्य प्रणयी स्नेहवशंवदस्तद्वतीत्यर्थः । तमुष्णकरं सूर्य निराचकार तिरश्चकार । निजोग्रप्रतापेन स्वर्णवेििवद्यमानत्वेनाऽनुपमशोभया तिरश्चकारेति भावः । भाषा सोने के घर के चौतरे पर चरण रखने वाले राजा आहवमल्लदेव के पुत्र विक्रमाडूदेव ने (सोने के) सुमेरु पर्वत के प्रान्त भाग की उच्च भूमि के मध्य में विराजित सूर्य को नीचा दिखाया। अर्थात् सूर्य के समान तेजस्वी विक्रमाङ्कदेव के सोने के बने घर की वेदिका पर विराजित होने से इसकी शोभा के सामने सुमेरु पर्वत के प्रान्तभाग में विराजित सूर्य की शोभा फीकी पड़ गई। कतिचिदपि दिनानि तत्र नीत्वा परिसरभूमिषु भूरिभिविलासैः। चरतणलनिविष्ट्दुष्टवर्ग: पुरमवलोकयति स्म गाज्ञकुण्डम् ॥२१॥ अव्यः