पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/371

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 ܐܝܟ ¬ * ܢ गगनमुपगतेन शोभते य-क्रिरुपमकाञ्चनवप्रमण्डलेन । सुरपुरमिव हेमशैलमध्ये विबुधविभूतिभरात्कृतप्रवेशम् ॥२३॥ श्रान्वयः यत् विबुधविभूतिभरात् गगनम् उपगतेन निरुपमकाञ्चनवप्रमण्डलेन हेमशैलमध्ये कृतप्रवेशं सुरपुरम् इव शोभते । व्याख्या यद्गाङ्गकुण्डचोलपुरं बिबुधानां देवानां पण्डितानां वा विभूतिभरार्देश्वर्यातिशयाद्धेतोरन्यत्र भारात्-इदं साधर्म्यनिष्पादकहेतुनिरूपकं पदम् ॥ गगनमाकाशमुपगतेन प्राप्तेन नास्ति उपमा सादृश्यं यस्य तन्निरुपममद्वितीयं यत्काञ्चनस्य सुवर्णस्य वप्रमण्डल प्राकारपरम्परा (छड़दिवाली इति भाषायाम्) तेनाऽनुपमसुवर्णनिमितप्राकारपरम्पराहेतुना हेम्नः सुवर्णस्य शैलः पर्वतः सुमेरुस्तस्य मध्येऽभ्यन्तरे कृतो विहितः प्रवेशोऽभ्यन्तरस्थितिर्येन तद्विहितप्रवेशं सुराणां देवानां पुरं नगरममरावतीव शोभते विलसति । काञ्चनप्राकारान्तर्गतगाङ्गकुण्डचोलपुरस्योपरि सुमेरुपर्वतान्तर्गतसुरपुरत्वस्योत्प्रेक्षणादुत्प्रेक्षा । भाषा जो गाङ्गकुण्ड चोलपुर, विद्वानों की अधिक समृद्धि से और आकाश चुम्वि अनुपम सोने की चाहार दिवारी से मानों देवों की अधिक समृद्धि से (अर्थात् बोझे से स्वर्ग से नीचे आई हुई) और (ऊंचे) सोने के पर्वत सुमेरु के बीच में प्रविष्ट, अमरावती नगरी के समान शोभित होता था । ਜੇਸਸo ਧ , ਜਕ ਜੱਜ ਸ਼ਜ |