पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/367

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गलविगलितपुष्पबाणचक्र-श्रियमसितोत्पलचारुलोचनायाः R\Sl अन्वयः असितोत्पलचारुलोचनायाः परस्याः मणिकुण्डलं श्रवणपरिच्युतं (सत्) अंसदेशम् एत्य गलविगलितपुष्पबाणचक्रश्रियम् अभजत । ठयाख्य असितं नीलमुत्पलं कमलं तद्वच्चारुणी सुन्दरे लोचने नेत्रे यस्याः सा तस्या नीलकमलवत्सुन्दरनेत्रायाः परस्या अन्यस्याः ललनाया मणिकुण्डलं रत्नावतंसः श्रवणाभ्यां कर्णाभ्यां परिच्युतं पतित सत् अंसदेश स्कन्धस्थलमेत्य संप्राप्य गले कण्ठदेशे विगलितास्सम्प्राप्ताः पुष्पबाणाः कुसुमसायकास्तेषां चक्रं समूहस्तस्य श्रियं शोभामभजत धारयामास । मणिकुण्डलस्य पुष्पबाणेन साम्यादुपमा । मणिकुण्डलस्य वर्तुलाकारत्वात् · कामस्य चक्रश्रियमभजतेत्यर्थः समीचीनः । परन्तु कामस्य चक्रधारणमप्रसिद्धम् । s किसी नीले कमल के ऐसे सुन्दर नेत्रवाली नारी के कान में का मणिकुण्डल गिर कर उसके गले पर आ पड़ने से वह गले पर पड़े हुए कामदेव के फूल के बाण समूहों की शोभा को प्राप्त करता था । कान के अभूषण के गोल होने से कामदेव के चक्र की शोभा अर्थ ही ठीक है। परन्तु कामदेव का चक्र धारण अप्रसिद्ध है। परिकलितचुलुक्यराजपुत्र-प्रथमविलोकनकौतुकत्वराणाम्। इति नगरकुरङ्गलोचनाना-मभवदनङ्गविलोभनो विलासः ॥१८॥