पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/366

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

च विनिहितं स्थापित पदं स्थानं येन सतेन कृतस्थानेन धरणीन्द्रस्य नृपतेराहवमल्लदेवस्य सूनुः पुत्रस्तेन विक्रमाङ्कदेवेनाऽधरं निम्नस्थानस्थितं गुणैन्यूनञ्च कृतमिव सम्पादितमिवाऽत एव निपतितमधोभ्रष्टं हारं मुक्तामालामवधीर्य परित्यज्य जगाम गता । कुमारं द्रष्टुं गताऽन्या काऽपि स्त्री रभसात् निपतितां हृदिस्थां मुक्तामाला परित्यज्य जगाम । यतः हारस्य स्थाने ललनाहृदयं शुद्धभासा कुमारेणऽऽश्रितत्त्वात्तस्य निम्नस्थानगतत्वात्पतनमुत्प्रेक्षितमिति भावः । श्लेषानुप्राणितोत्प्रेक्षा। FTEI मृग के समान चञ्चल नेत्र वाली कोई ललना, निर्मलकान्तिवाले और ललना के हृदय में स्थान बनाने वाले राज पुत्र से, मानों नीचे खसकाए गये हुए अतएव वक्ष: स्थलपर से गिरे हुए हार की परवाह न कर चली गई। उरसि मूनसिजावतंसलीला-समुचितकोमलपछ्वानुकुरापू नखलिपिमपरा प्रकाशयन्ती सुरतविमदेसहत्वमाचचक्षे ।।१६।। अपरा उरसि मनसिजावतसलीलासमुचितकोमलपलवानुकारां नखलिपिं प्रकाशयन्ती सुरतविमर्दसहत्वम् आचचक्षे । व्याख्या अपराऽन्या कामिन्युरसि वक्षःस्थले मनसिजस्य कामस्य याऽवतंसलीला भूषणरूपविलासस्तस्याः समुचितो योग्यः कोमलपल्लवो मृदुकिसलयं ‘पल्लवोऽस्त्री किसलयम्' इत्यमरः । तस्याऽनुकारोऽनुकरणं यस्यां सा तां मन्मथभूषण विलासयोग्यमृदुकिसलयसदृशाकृतिमद्धवृत्ताकारामित्यर्थः । नखलिपै नखक्षतपरम्परा प्रकाशयन्ती प्रदर्शयन्ती सुरते निधुवनक्रीड़ायां यो विमर्द: संघर्षस्तं