पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/365

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रवतरति मृगीदृशां तृतीयं मनसिजचलुरुपायदर्शनेषु ॥१४॥ श्रव्यः अपरा मुधा। कलकल विधाय क्षितिलकात् नयनान्तम् आससाद } मृगीदृशां तृतीयं मनसिजचक्षुः उपायदर्शनेषु अवतरति । व्याख्या अपरा काचित् कामिनी मुधा व्यर्थमेव प्रयोजनमन्तरेणैवेत्यर्थः । कलकलं कोलाहलं ‘कोलाहलः कलकलः' इत्यमरः । विधाय कृत्वा क्षितितिलकाद्भूमिभूषणाद् विक्रमाङ्कदेवान्नयनयोर्नेत्रयोरन्तमपाङ्गभागमाससाद प्राप । कलकलमिषेण तस्य दृष्टिमाचकर्षति भावः । मृगीणा हरिणीना दृशो नेत्राणीव दृशो यासा तास्तासां हरिणनयनानां तृतीयं तृतीयसंख्याकं मनसिजः कामः एव चक्षुर्नयनं कामनयनमुपायानां यत्किब्चिद्वयाजरूपोपायानां वर्शनमवलोकनं प्रयोग इत्यर्थः । तेषु स्वाभीष्टसिद्धयुपायप्रयोगेष्ववतरति फलति । काम एव तरुणीना विभ्रमादिचमत्कृतानन्यसाधारणव्यवहारशिक्षक इति भावः । पूर्वार्धस्योत्तरार्धेन समर्थनादथन्तरन्यासोऽलङ्कारः । भाषा किसी अन्य स्त्री ने, अकारण कोलाहल मचाकर, विक्रमाङ्कदेव का दृष्टिकोण अपनी ओर आकर्षित कर लिया । मृगनयनियों का कामरूपी तृतीय नेत्र, (ऐसे २) उपायों को सुझा देता है। हृदि विहितपदेन शुद्धभासा कृतमधरं धरणीन्द्रसूनुनेव । निष्पतितमवधीर्य हारमन्या हरिणविलोलविलोचना जगाम ॥१५॥ sts