सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/361

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 स्माद्गलत्पारपतदभुजल बाष्पाम्भा यस्य स चन्द्राकरणश्वतकपाल'लद्वा७पाम्बुस्सन् चिरं बहुकाल ललाप विललाप विलापं चकारेत्यर्थः । अत्राऽनुप्रासः शब्दालङ्कारः । अत्र 'ललाप' इति क्रियापदे अवाचकत्वं नाम दोष:, उपसर्ग विनाऽर्थबोधकत्वाऽभावात् ।

भाषा

 वह राजपुत्र, कोमल हृदय होने से, गुणों के अनुराग के कारण तथा अत्यधिक प्रेम से, चन्द्रमा की किरणों के समान सफेद पड़ गए हुए गालों पर से आसुओं को गिराता हुआ बहुत देर तक विलाप करता रहा ।

द्रविडविषयराज्यविल्वेन श्रवणपथातिथिना ततः सखेदः ।
 श्रभिजनवति चोलराजपुत्रे श्रियमभिषेक्तुमसौ समुच्चचाल ॥&॥

अन्वयः

 ततः असौ श्रवणपथातिथिना द्रविडविषयराज्यविप्लुवेन सखेदः (सन्) अभिजनवति चोलराजपुत्रे श्रियम् अभिषेक्तुं समुच्चचाल ।

व्याख्या

 ततश्चोलराजविषयकशोकानन्तरमसौ विक्रमाङ्कदेवः श्रवणयोः कर्णयोः पन्था मार्ग इति श्रवणपथः कर्णकुहरमार्गस्तस्याऽतिथिविषयस्तेन श्रुतेनेत्यर्थः । द्रविडविषयो द्रविडदेशस्तस्य राज्यं शासनं तस्मिन् विप्लवो डिम्बः ‘डिम्बे डमरविप्लवौ' इत्यमरः । तेन, खेदेन दु:खेन सहितः सखेदो दु:खाक्रान्तस्सन्नभिजनवति कुसन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ' इत्यमरः । चोलराजपुत्रे वीरराजेन्द्रात्मजेऽधिराजराजेन्द्रनामके श्रियं राज्यलक्ष्मीमभिषेक्तु प्रतिष्ठापयितुं समुच्चचाल प्रतस्थे ।