पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/360

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रणरभसविलासकौतुकेन स्थितिमथ बिभ्रदसौ यशोवर्तसाम्। विधिहतकदुराग्रहादकाण्डे गतमशृणोद्द्रविडेन्द्रमिन्द्रधाग्नि ॥७॥ अन्वयः अथ रणरभसविलासकौतुकेन यशोवर्तसां स्थिति बिभ्रत् असी विधिहतकदुराग्रहात् अकाण्डे द्रविडेन्द्रम् इन्द्रधान्नि गतम् अश्रृणोत् । व्याख्या अथ किञ्चित्कालानन्तरं रणो युद्धं तस्य रभसो हर्षः ‘रभसो हर्षवेगयोः' इति विश्वः । तस्य विलासः क्रीडा लीला तस्य कौतुकं कुतूहलं तेन युद्धजनितहर्षलीलाकुतूहलेन यशः कीतिरवतंसो भूषणं यस्यास्सा तां कीतिभूषणां स्थितिमवस्थां बिभ्रद्धारयन्नसौं विक्रमाङ्कदेवो विधिर्बह्मा स एव हतको नीचस्तस्य दुराग्रहाद्दुरभिनिवेशादिकाण्डेऽनवसरे द्रविडेन्द्रं चोलराजमिन्द्रधाम्नि स्वर्गे गतं प्राप्तं मृतमित्यर्थः । अशृणोदाकणितवान् । &TTST कुछ काल के अनन्तर, युद्ध जनित हर्ष की लीला के कुतूहल द्वारा यश से विभूषित अवस्था में विद्यमान उस विक्रमाङ्कदेव ने क्रूर दैव के दुराग्रह से द्रविडदेश के राजा की असमय में ही स्वर्ग में जाने की बात सुनी । मृदुहृदयतया गुणानुरागादतिमहतः प्रणयाच राजपुत्रः । हिमकरकरकाण्डपाण्डुगण्ड-स्थलगलदश्रजलश्चिर ललाप ।l८I। ar:19