पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/358

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा केवल गुणों से ही स्नेह करने वाला, पृथ्वी भर के लोगों को सुख देने वाला विक्रमाङ्कदेव, अपने आदर की सिद्धि से प्रसन्न चित, द्रविड राजा के चले जाने पर, क्षण २ में उसके लिये उत्कण्ठित होता था । स्वच्छ हृदय वाले मनुष्यों के मन, फूल के ऐसे कोमल होते हैं। द्रविडपतिकथाद्भुत क्षणेषु क्षितिपति सूनुरसौ गुणानुरागी । पुलकपरिकरैः कपोलपालीं विपुलमतिः परिपूरयाश्चकार ॥४॥ ਚ: विपुलमतिः गुणानुरागी असौ क्षितिपतिसूनुः द्रविडपतिकथाद्भुतक्षणेषु पुलकपरिकरैः कपोलपाली परिपूरयाख्नकार । व्याख्या विपुला विशुद्धोदारेत्यर्थः । मतिर्बुद्धिः ‘बुद्विर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । यस्य स उदारप्रज्ञो गुणेषु सौजन्यादिगुणेष्वनुरागः प्रेम यस्य स गुणस्नेह्यसौ प्रसिद्धः क्षितिपतेर्नृपस्याऽऽहवमल्लदेवस्य सूनुः पुत्रो विक्रमाङ्कदेवो ब्रविडपतेश्चोलराजस्य कथानां वार्तानामद्भुता आश्चर्यान्विताः क्षणा अवसरास्तेषु चोलराजसम्बन्धिवृत्तान्तचर्चाकालेषु पुलकाना रोमाञ्चाना परिकरास्समूहास्तै रोमाञ्चप्रकरैः कपोलपालीं गण्डस्थलीं परिपूरयाञ्चकार परिपूर्णाञ्चकार । तस्य चोलराजस्य स्मरणमात्रेण प्रेम्णा स रोमाञ्चितोऽभूदिति भावः । TT निर्मल बुद्धि वाले गुणग्राही राजा आहवमल्लदेव के पुत्र विक्रमाडूदेव के गाल,