पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/357

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुन्तलनाथनन्दनः अपि द्रविडनरपतेः निरवधि वित्तम् श्रद्त्त । यशसि रसिकताम् उपागतानां गुणरागिणां धनेषु तृणगणना । व्याख्या कुन्तलनाथस्याऽऽहवमल्लदेवस्य नन्दनः पुत्रो विक्रमाङ्कदेवोऽपि द्रविडस्य द्रविडदेशस्य नरपते राज्ञश्चोलराजस्य नास्त्यवधिस्सीमा यस्य तन्निरवधि प्रभूतं वित्तं धनमदत्त दत्तवान् याचकेभ्य इत्यर्थः । यशसि कीर्ती ‘यशः कीतिः समज्ञा च' इत्यमरः । रसिकतामानन्दानुभूतिमुपागतानां प्राप्तानां गुणेषु सौजन्यादिगुणेषु रागिणोऽनुरागवन्तस्तेषां गुणस्नेहिनां धनेषु वित्तेषु वित्तविषय इत्यर्थः । तृणस्य घासस्य ‘शष्फं बालतृणं घासः' इत्यमरः । इव गणना वृष्टिर्भवति । यशस्विनां घनं तृणवन्निर्मूल्यमिति भावः । पूर्वार्द्धस्योत्तराद्धेन समर्थनादर्थान्तरन्यासोऽलङ्कारः । भाषा कुन्तलदेश के राजा आहवमल्लदेव के पुत्र विक्रमाडूदेव ने भी द्रविड राजा के अपरिमित वित्त की याचकों को दे दिया । यश में रसिकता रखने वाले गुणग्राही जन, धन की तृणवत् समझते हैं। मुदितमनसि जातमानसिद्धौ गतवति तत्र गुणैकपक्षपाती । प्रतिपदमुदकण्ठत क्षितीन्दुः कुसुममृदूनि मनांसि निर्मलानाम् ॥३॥ अयः गुरौकपक्षपाती क्षितीन्दुः जातमानसिद्धो मुदितमनसि तत्र गतवति (सति) प्रतिपदम् उदकण्ठत । निर्मलानां मनांसि कुसुममृदूनि (भवन्ति)। व्याख्या