पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/356

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः सर्गः । सह विभवभरेण तत्र पुत्रों गुणनिधये नृपनन्दनाय दत्वा। कथमपि परिणेतुरभ्यनुज्ञामथ समवाप्य चचाल चोलराजः ॥१॥ अव्यः अथ चोलराजः तत्र गुणनिधये नृपनन्दनाय विभवभरेण सह पुत्रीं व्हल्वा कथमपि परिणेतुः अभ्यनुज्ञां समवाप्य चचाल । व्याख्य अथ विक्रमाङ्कदेवचोलराजयोस्समेलनानन्तरं चोलवंशस्य नृपो राजा वीररंग्जेन्द्रस्तत्र तुङ्गभद्रातटे गुणानां शौर्यादिगुणानां निधिराकरस्तस्मै गुणाकराय नृपस्य राज्ञ आहवमल्लदेवस्य नन्दनाय पुत्राय विक्रमाडूदेवाय विभवस्य सम्पत्तेऔरस्समूहस्तेन समृद्धिराशिना सह सार्क पुत्रीं स्वात्मजां दत्बा समप्र्य कथमपि केनाऽपि प्रकारेण परिणेतुविवाहकर्तुरभ्यनुज्ञामाज्ञां समवाप्य लब्ध्वा चचाल स्वराजधानी प्रति प्रतस्थे । पुष्पिताग्रावृत्तम् । “अयुजि तयुगरेफतो यकारो युजि च न जौ जरगाश्च पुष्पिताग्रा” इति लक्षणात् ॥ ATTET विक्रमाङ्कदेव और चोलराज से मिलाप होने के अनन्तर, चोलदेश के राजा ने तुङ्गभद्रा नदी के तट पर उस गुण की खान, राजपुत्र विक्रमाडूदेव को बहुत सी सम्पति के साथ कन्या प्रदान कर, वड़ी कठिनता से विवाह करने वाले