पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/355

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गाम्भीर्यस्य निधिराकरस्तेन महाधैर्यवता द्रविडेश्वरेण द्रविडाधिपेन वीरराजेन्द्रण माधुर्याणां मधुरभावानां धुर्या धौरेया अग्रगण्या इत्यर्थ: । 'धूर्वहे धुर्य धौरेय

धुरीणाः सधुरंधराः’ इत्यमरः । तैविशेषमधुरैः पदैश्शब्दैरित्यादि पूर्वोक्तमन्यच्च 

निबिडप्रेम्णा सान्द्रस्नेहेन मुहुर्वारं वारं व्याहृतः कथितः सः प्रसिद्धः चालुक्यस्य

चालुक्यवंशस्य विद्याधरः श्रेष्ठजनो देवो विक्रमाङ्कदेवः ‘नामैकदेशग्रहणे नाम-

ग्रहणमिति' । चोलीना चोलाङ्गनाना कुटिलासु वक्रासु कुन्तललतादोलासु केशवल्लीरूपान्दोलिकासु लोलां चञ्चलां दृशं दृष्टि विनोदयन् व्यापारयन्मुद- मानन्दमगात्प्राप । शार्दूलविक्रीडितच्छन्दः । सूर्याश्वैर्यदि मः सजौ सततगाः

शार्दूलविक्रीडितम् । रूपकमलङ्कारः ।
                                           भाषा 
  इसके अनन्तर, कन्या के अन्तः पुर में, अत्यन्त धीर, द्रविड देश के राजा,
वीरराजेन्द्र द्वारा, विशेष मधुर शब्दों में बार २ घनिष्ट प्रेम से ऐसी २ बातों 

से सम्बोधित उस चालुक्यवंश में श्रेष्ठ, विक्रमाङ्गदेव ने चोलदेश की अङ्गनाओं के धुंघराले केशलता रूपी झूलों पर अपनी चञ्चल नजर फेरते हुए, आनन्द प्राप्त किया। अर्थात् हवा से हिलने वाले धुंघराले बालवाली अङ्गनाओं को देख कर उसे हर्ष हुआ।

    इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हण विरचिते
विक्रमाङ्कदेवचरिते महाकाव्ये पञ्चमः सर्गः ।
       नेत्राब्जाभ्रयुगाङ्कविक्रमशरत्कालेऽत्र दामोदरात् 
      भारद्धाजबुधोत्तमात्समुदितः श्री विश्वनाथः सुधीः ।
      चक्रे रामकुबेरपण्डितवरात्संप्रात्पसाहाय्यक-
      ष्टीकायुग्ममिदं रमाकरुणया सगै शुभे पञ्चमे ॥