पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/354

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पताका प्रणयम् एतु ।

                     व्याख्या
  इयं पुरतो दृश्यमाना भुवनानां लोकानां त्रयं तस्य त्रिभुवनस्य विभूषणमलङ्कारः कन्या ममात्मजा, एतदग्रे वर्तमानं विपुलं विशालं सिंहासनं राज्याधिष्ठातृसमुपवेशनस्थानं, अयं प्रत्यक्षद्श्यो मम मवीय अात्मा शरीरावच्छिन्न अात्मा । तदिदं पूर्वोक्तं वस्तुजातं व्यस्तमेकंकमथवा पक्षान्तरे समस्तं सयं मिलितं गृहाण स्ववशमानय । मम पुण्यैश्शुभकम्र्न्याद्रुष्टराशिभिर्यश:पताका मम कीतिवैजयन्ती ‘पताका वैजयन्ती स्यात्केतनं ध्वजमस्त्रियाम्' इत्यमरः । प्रणयमेतु स्फुरतु ।
                   भाषा
 तीनों लोकों की विभूषणस्वरूप यह मेरी लड़की, यह विशाल राजसिंहासन और यह इस शरीर से आवृत मेरी आत्मा, इन सब वस्तुओं का एक एक करके अथवा इन सभी वस्तुओं का इकठठा ही आप स्वीकार करें। मेरे पुण्यों से मेरी कीर्तिपताका प्रसन्नता पूर्वक फहराती रहे। अर्थात् मेरे पुण्यों से आपके सम्बन्ध से मेरा यश चिरस्थायी हो ।
   कन्यान्तःपुरधाम्नि धैर्यनिधिना माधुर्याधुर्यैः पदै
          रित्यादि द्रविडेश्वरेण निबिडप्रेम्णा मुहुव्र्याहुतः ।

चोलीना कुटिलासु कुन्तललतादोलासु लोला दृशं

     देवः सोऽथ विनोदयन्मुदमगाचालुक्यविद्याधरः ॥८&॥