पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/353

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

 दृष्टान्तभूरनवधेः करुणरसस्य ।

       त्वं वेधसा विरचितः सकलादिराज
             निर्माण्सारपरमाणुसमुच्चयेन ॥८७॥
                    अन्वयः
   वेधसा सकलादिराजनिर्मारगसारपरमारगुसमुच्चयेन त्वं धैर्यस्य धाम, अद्भुतचेष्टितानां निधिः अनवधेः करुणारसस्य दृष्टान्तभूः विरचितः।
                    व्याख्या
    वेधसा ब्रह्मणा सकलास्समस्ता अादिराजानो मान्धातृदिलीपप्रभृतय अादिनृपतयस्तेषां निर्माणस्य रचनायाः सारभूताः श्रेष्ठांशा ये परमाणवस्सूक्ष्मतमभागास्तेषां समुच्चयेन समूहेन सर्वादिमान्धातृप्रभूतिनृपरचष्सरांशरूपसूक्ष्मतमभागकदम्बेन त्वं भवान् धैर्यस्य गाम्भीर्यस्य धाम कुलगृहमद्भुतान्याश्चर्योत्पा-दकावि चेष्टितानि व्यापारास्तेषां निधिराकरोऽनवधेरिनर्मयदस्य करुणारसस्य दयार्द्धभावस्य दृष्टान्तभूर्दष्टान्तभूमिरुदाहरणमित्यर्थः । विरचितो निर्मितः । अत्र राज्ञि धामनिध्यादेरभेदारोपान्मालारूपकालङ्कारः ।
                   भाषा                                                                                   
     ब्रह्मा ने समग्र प्राचीन मान्धाता दिलीप आदि राजाओं को बनाने के सारभूत परमाणुओं के संग्रह से गाम्भीर्य के घर, आश्चर्यजनककार्यों का खजाना और असीम दयार्द्रभाव के उदाहरण स्वरूप, आप की रचना की।
   कन्या विभ्रषरामियं भुवनत्रयस्य