पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/352

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

के मुकुटमणियों के प्रकाश को निस्तेज करते हुए, कुन्तलेश्वर विक्रमाङ्कदेव से कहा ।

          श्रृङ्गानि चन्दनरसादपि शीतलानि।
                 चन्द्रातपं वमति बाहुरयं यशोभिः ।                         
          चालुक्यगोंत्रतिलक क्व वसत्यसौ ते
                 दुर्वृत्तभूपपरितापगुरुः प्रतापः ॥८६॥
                अन्वयहः

    श्रृङ्गानि चन्दनरसात् श्रृपि शीतलानि (सन्ति) । श्रृयं बाहुः यशोभिः चन्द्रातपं वमति । चालुक्यगोत्रतिलक ! ते दुर्वृत्तभूपपरितापगुरुः गुरः  प्रतापः श्रृसौ क्व वसति ।
              व्याख्या 
    अङ्गानि ते शरीरावयवारचन्दवस्य श्रीखण्डस्य रसो द्रवस्तस्मादपि शीतलानि शीतानि सन्ति । अयं प्रसिद्धो बाहुर्भुजो यशोभिः कीतिभिरचन्द्रस्येन्दोरतपं ज्योत्स्नां चन्द्रकिरणसमानशीतकान्ति वमति प्रकटयति । हे चलुक्यगोत्रतिलक ! हे चालुक्यवंशविभूषण ! ते तव दुर्वत्तानां दुश्चरित्राणां भूपानां राज्ञां परितापस्य संतापस्य गुरुराचार्यों महीयॉंश्च्तिशायसंतप-कारीत्यर्थः । अथवा परितापेन गुरुः प्रबलः प्रतापः ।। "‘स प्रभावः प्रतापश्च यत्तेजः कोशदण्डजम्' इत्यमरः ।। क्व कुत्र वसति । तवाऽऽलिङ्गनेन तवाऽवयवेषु सर्वत्र शैत्यमेवाऽनुभूतम् । तव शत्रुदाहकरं तेजस्तव शरीरे कुत्र वसतीति तु न ज्ञायते इति भावः । अत्रैवंविधशीतलाङ्गात्तादृशप्रतापोदयो विस्मयावह इति विषमालङ्कारः ॥