सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/346

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भाषा

चोलराज की उस सेना के तुङ्गभद्रा नदी के किनारे पर ही डेरा रखने के अनुरोध से, (किनारे की संकीर्णता से कतार में बहुत दूर तक टिकी होने से) वह सेना इतनी अधिक विशाल व दूरदेश व्यापी हो गई थी कि राजभवन में जाने वाले सम्पूर्ण रात भर का समय चलने में लगाने पर ही, राज भवन में पहुँच पाते थे ।

चोलकेलिसलिलावगाहन-प्राप्तभूरिघनसारपाण्डुरा ।
सा हिमाचलविटङ्कनिर्गता जाहृवीव तटिनी व्यराजत ॥७७॥

अन्वयः

चोलकेलिसलिलावगाहनप्राप्तभूरिघनसारपाण्डुरा सा तटिनी हिमाचलविटङ्कनिर्गता जान्हवी इव व्यराजत ।

व्याख्या

चोलस्य चोलदेशनृपतेश्चोलजनस्य च यत्केलिसलिलावगाहनं क्रीडार्थजलस्नानं तेन प्राप्तो लब्धो भूरि घनसारः प्रचुरकर्पुरस्तेन पाण्डुरा शुभ्रवर्णा सा प्रसिद्धा तटिनी तुङ्गभद्रानदी ‘तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी' इत्यमरः । हिमाचलस्य तुषाराद्रेर्विटङ्कं शिखरं “कपोतपालिकायान्तु विटङ्कं पुंनपुंसकम्' इत्यमरः । तस्मान्निर्गता निस्सृता जाह्नवीव गङ्गेव व्यराजत शुशुभे । कर्पूरसंमिश्रणात्तुङ्गभद्रायाः कृष्णं जलं गङ्गेव शुभ्रं जातमिति भावः । विटङ्क कपोतपालिकावाचकमत्र लक्षणया शिखरवाचकमिति । अत्रोपमालङ्कारः ।

भाषा

चोलदेशीय राजा और प्रजा के जलक्रीडा सहित स्नान करने से, उनके