सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/344

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति



रञ्जितः परिजनोऽस्य शीतल-स्वच्छया सपदि तुङ्गभद्रया ।
आगताः किमपि पृष्ठतस्तु ये पङ्कशेषमलभन्त ते जलम् ॥७४॥

अन्वयः

अस्य परिजनः सपदि शीतलस्वच्छया तुङ्गभद्रया रञ्जितः । ये तु किम् अपि पृष्ठतः आगताः ते पङ्कशेषं जलम् अलभन्त ।

व्याख्या

अस्य चोलदेशाधिपस्य परिजनोऽनुचरवर्गस्सपदि तत्क्षणं ‘सद्यः सपदि तत्क्षणे' इत्यमरः । शीतला शीता चाऽसौ स्वच्छा निर्मला च तया शीतलनिर्मलाम्बुयुक्तया तुङ्गभद्रया नद्या रञ्जितः प्रसन्नो जातः । ये तु जनाः किमपि पृष्ठतः किञ्चित्कालानन्तरमागतास्तुङ्गभद्रां प्राप्तास्ते पङ्क एव शेषो यस्मेिंस्तत्पङ्कशेषं कर्दमावशिष्टं जलं सलिलभालभन्त प्राप्तवन्तः । अनेन चोलराजेन सहाऽगतस्य जनसमूहस्याऽऽधिक्यं सूचितम् ।

भाषा

उस चोल राजा के नौकर चाकर शीघ्र ही ठंढे और निर्मल जल वाली तुङ्ग भद्रा नदी से प्रसन्न हो गए । अर्थात् तुङ्गभद्रा नदी के शीतल और निर्मल जल में स्नान आदि कर उस राजा के नौकरों को बहुत आनन्द मिला। परन्तु जो लोग कुछ देर करके आए उनको गंदला पानी ही मिला। अर्थात् उस राजा के साथ में अत्यधिक नौकर चाकर आदि आए थे ।

दक्षिणार्णवतटादुपागतैस्तद्गजैः पिशुनतां गतैरिव ।
शीघ्रमक्रियत मध्यवर्तिभिः सा प्रतीपगतिरब्धिवल्लभा ॥७५॥