मिव रचितम् । पक्षे भ्रमरज्यारूपलताप्रणयिप्रियालवृक्षाणां समृद्धिभिस्तेन राजलक्ष्म्याः कृते क्रीडोद्यानमिव रचितमिति भावः । श्लेषानुप्राणितोत्प्रेक्षा लङ्कारः ।
|
भाषा |
चोल देश के राजा ने बाण तथा मौर्वी से सम्बन्ध रखने वाले सेना के धनुषों के प्रभाव से जहाँ तहाँ शान्ति स्थापन कर मानों विजयलक्ष्मी के सैल सपाटे के लिये बाग बना दी थी । पक्ष में भौंरे और लता से प्रेम करने वाले प्रियाल वृक्षों के आधिक्य से मानों विजयलक्ष्मी के लिये जहाँ तहाँ विहार करने के लिये बाग बना दी थी ।
|
अप्रयाणरहितैः स पार्थिवः प्राप कैरपि दिनैस्तरङ्गिणीम् । |
|
अन्वयः |
सः पार्थिवः अप्रयाणरहितैः कैः अपि दिनैः तरङ्गिणीं प्राप । धीमतां कार्यजातम् असमाप्य निद्रया परिचयः अपि कीदृशः ।
|
व्याख्या |
सः पाथिवश्चोलदेशनृपोऽप्रयाणं विश्रामस्तेन रहिता हीनास्तैविश्रान्तिरहितैः कैरपि कैश्चिदेव दिनैर्दिवसैस्तरङ्गिणीं तुङ्गभद्रानदीं प्राप संप्राप्तः । धीमतां बुद्धिमतां जनानां कार्यजातं कार्यसमूहमसमाप्य परिपूर्णमकृत्वा निद्रया विश्रामेण परिचयोऽपि सम्बन्धोऽपि कीदृशो भवति । न भवतीत्यर्थः । बुद्धिमन्तो विनैव कार्यसमाप्ति विश्रामं नाऽऽश्रयन्तीति भावः। पूर्वार्द्धस्योत्तराद्धेन समर्थनादर्थान्तरन्यासालङ्कारः।