पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/342

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या चेतसोऽपि चित्तस्याऽपि ‘चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मन': इत्यमरः ॥ अल्लङ्घयतामप्राप्यतां पारं गन्तुमशक्यतामित्यर्थः । दधतीधरियतीरवटा गर्ताः *गर्तावटौ भुवि श्वभ्रे' इत्यमरः । तेषां स्थलीभुवस्ता गर्तबहुला भूमीर्लङ्घयद्भिः पारं गच्छद्भिस्तस्य चोलराजस्य वाजिभिरश्वैः क्षितिः पृथ्वी सर्वतः सर्वत्र भ्रान्ता भयाच्चकिता वातहरिणा वातमृगाः ‘वातप्रमीर्वातमृगः कोकस्त्बीहामृगो वृकः' इत्यमरः । यस्यां सेव निजस्थानपरिभ्रष्ट-भयचकितवातमृगयुक्तेवाऽराजत शुशुभे । अत्रोत्प्रेक्षालङ्कारः । भाषा मन से भी लांघने की कल्पना न की जाने योग्य ऊबड़ खाबड़ जमीन को लांघने वाले उस चोलराज के घोड़ों से मानों पृथ्बी चारो ओर घवड़ाए हुए वातमृगों से युक्त शोभित हो रही थी । तेन सैन्यधनुषां शिलीमुख-ज्यालताप्रणयिनां विभूतिभिः । तत्र तत्र विजयश्रियः कृते केलिकाननमिव व्यधीयत ॥७२॥ अव्यः तेन शिलीमुखज्यालताप्रणयिनां सैन्यधनुषां विभूतिभिः विजयश्रियः छृते तत्र तत्र केलिकाननम् इव व्यधीयत । ଶ୍ରେtr୪ଞଅt तेन चोलराजेन शिली शल्यं मुखेऽग्रे येषां ते शिलीमुखा बाणा भ्रमराश्च *अलिबाणौ शिलीमुखौ' इत्यमरः । ज्यालताश्च मौर्वीरूपलताश्च तासां प्रणयिनः