जिस राजा की तलवार, युद्ध में विजयरूपी अमृत का पान कर अवश्य मदोन्मत्त हो गई थी । क्यों कि उसने केवल एक धारा नगरी को लेकर या एक धारा रखते हुवे कीर्ति की हजारों धाराओंं को बहाया ।
शतक्रतोर्मध्यमचक्रवर्ती क्रमादनेकक्रतुदीक्षितोऽपि ।
ऐन्द्रात्पदादभ्यधिके पदे यस्तिष्ठन्न शङ्कास्पदतामयासीत् ॥६७॥
अन्वयः
मध्यमचक्रवर्ती क्रमात् ऋनेकक्रतुदीक्षितः यः ऐन्द्रात् पदात् अभ्यधिके पदे ऋपि तिष्ठन् शतक्रतोः शङ्कास्पदतां न ऋयासीत् ।
व्याख्या
मध्यमचक्रवर्ती मध्यमलोकस्य भूलोकस्य चक्रवर्ती सार्वभौमः क्रमात्परि- पाट्याऽनेकेष्वसंख्येषु ऋतुषु यज्ञेषु दीक्षितः सञ्जातदीक्षः यो राजा ऐन्द्रात्पदादिन्द्र पदपेक्षयाऽभ्यधिकेऽधिकगुणे पदेऽपि स्थाभेऽपि तिष्ठन्समासीनः शतऋतोरिन्द्रिस्य शङ्कास्पदतां सन्देहस्थानं नाऽयासीन्न प्राप्तः । तस्याऽसंख्यक्रतुसम्पादनेनाऽपि शतऋतुर्भयभीतो न बभूव यतस्तेनैव तदुत्पादनर्थं ब्रह्मा प्रार्थित आसीत् ।0 शङ्गकारणसत्वेऽपि शङ्कस्वरूपकार्याभावप्रतिपादनद्विशेषोक्तिरलङ्कारः ।
भाषा
पृथ्वी के सम्राट् आहवमल्लदेव के धीरे २ अनेक यज्ञों के करने से इन्द्र पद से भी उच्चपद पाने की योग्यता हो जाने पर भी इन्द्र के मन में उसके सम्बन्ध में कोई शङ्का उत्पन्न न हुई । (क्योंकि इन्द्र की प्रार्थना से ही यह