पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या

    यस्य राज्ञः पुरः सम्मतायां चिन्तामणिनमाऽनघ्य रत्नं वराकोऽगण्यो दैन्ध्यः-

मेवाऽवलम्बते । राजापेक्षया नातिशयचमत्कारित्वेन प्रभावशून्यत्वात् । तथाहि यत इयं वात जनेषु विश्रुता विख्याताऽऽसीत् । यदित्यनेनोत्तराद्धक्तवाक्यार्थ- परामर्शः । तत्र राजनि सुवर्णतुलापुरुषदानार्थ सौवर्णी तुलेति सौवर्णतुला तस्यामधिरूढे स्थिते सति स चिन्तामणिः पाषाणेन सह तुला साम्यं तस्यामधिरोहं स्थिति, रत्न-तोलन-तुलायां बा स्थितिं चक्रे । अस्य राज्ञः सुवर्णेन तुलना चिन्तामणेस्तु पाषाणेन तुलनेत्यर्थपरामर्शच्चिन्तामणेर्दैन्यमेव । अथ च स् चिन्तामणिरभीष्टवस्तुचिन्तयाऽभीष्टवस्तुप्रदाता । अयं राजा तु चिन्तां विनैव मणे राजरूपोपमेयापेक्षयाऽपक प्रतिपादनाद्व्यतिरेकालङ्कारः । ‘उपमानाद्यदन्यस्य व्यतिरेकस्सएव सः ' ।

                                     भाषा
   जिस राजा की समता में चिन्तामणि रत्न भी किसी महत्व का नहीं था ।

इसीलिये यह बात लोक प्रसिद्ध है कि सुवर्ण पुरुष के दान में राजा सोने की तुला पर चढ़ता था किन्तु चिन्तामणि पत्थर (रत्न) तौलने की तुला पर तौला जाता था अर्थात् चिन्तामणि की तौल पत्थरों से होती थी और राजा की सोने से । ( चिन्तामणि अभीष्टवस्तु की याचना करने पर अभीष्ट वस्तु देता है किन्तु यह राजा बिना याचना के ही अभीष्ट वस्तु देता था) ।

 विधाय रूपं मशकप्रमाण भयेन कोणे क्वचन स्थितस्य ।