सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्वचन कस्मिश्चित्कोणे स्थितस्याऽऽत्मानमपावृत्य विद्यमानस्य कलेः कलियुगस्यो त्सारणकारणेनाऽपसारणार्थ दूरीकरणार्थमिव यागधूमैर्यज्ञजनितधूमैभुवनं जगद्रु रोधाऽऽच्छादितवान् । कलिजनितपापनिवारणार्थ यज्ञा मशकनिवारणार्थ धूमश्च क्रियत इत्याचारः । अत्र कलेरुत्सारणस्य यज्ञधूमकरणकभुवनरोधप्रयोजनत्वे नोत्प्रेक्षणादुत्प्रेक्षालङ्कारः ।

                                  भाषा
     जिस  राजा ने, मच्छर के इतना छोटा रूप धारण कर, किसी कोने में भय

से छिपकर बैठे हुए कलियुग को भगाने के लिए ही मानों यज्ञों के धूएँ से पृथ्वी को छा दिया । (मच्छरों को भगाने के लिए धूवाँ किया जाता है । )

  स्वभाविकादुष्णगभस्तिभासः क्षत्रोष्मणो दृष्टिविधातहेतोः ।
  यस्मिन्परित्रस्त इति क्षितीन्द्रेक्षणं न चिक्षेप कलिः कटाक्षम् ॥१००॥
                                श्रन्वयः
  कलिः  यस्मिन् छितीन्द्रे स्वाभाविकात् उष्णगभस्तिभासः क्षत्रोष्मणः

दृष्टिविधातहेतोः परित्रस्तः इति क्षणं कटाक्षं न चिक्षेप ।

                               व्याख्या
   कलिः  कलियुगो यस्मिन्प्रसिद्धे राजन्याहवमल्लदेवे स्वाभाविकात्प्राकृतिका-

दुष्णा गभस्तयो यस्य स उष्णगभस्तिः सूर्यस्तस्य भास इव भासः प्रभाः ‘स्युः प्रभारुगुचिस्त्विड्भा भाश्छविद्युतिदीप्तयः' इत्यमरः । यस्य तस्य क्षतात्त्रायत इति क्षत्रं क्षत्रियकुलं तस्योष्मा तेजस्तस्य क्षत्रोष्मणः क्षात्रतेजसो दृष्टेविघात इति दृष्टिविधात दृष्टिविनाशस्तस्य हेतोः कारणात् परित्रस्तो भयभीत इति हेतुना