सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः

       यस्य  रणेषु कल्पान्तकालानलचण्डमूर्तिः प्रकोपाग्नि: भोजक्षमापाल्-

विमुक्तधारानिपातपात्रेण शान्तिम् ऋवाप (इति) चित्रम् ।

                                      याख्या
       यस्य  राज्ञो रणेषु युद्धेषु कल्पान्तस्य प्रलयस्य यः कालानलः सर्वभस्म-

सात्कारिप्रचण्डाग्निस्तद्वच्चण्डोग्रा मूर्तिः स्वरूपं यस्य सः ‘संवर्तः प्रलयः कल्पः

क्षयः कल्पान्त इत्यपि' इत्यमरः । प्रकोपाग्निः क्रोधानलो भोजएव क्षमापालो नृपस्तेन विमुक्ता त्यक्ता पक्षे प्रवाहिता धारानगरी खङ्गधारा जलधारा च तस्या निपातेन पतनेन प्रवाहेण च शान्तिमवाप प्रापेति चित्रमद्भुतम् । यथा जल- धारयाऽग्निः शान्तिमेति तथैव धारानगरीविजयेन राज्ञः क्रोधः शान्तिमगादित्यर्थः । कल्पान्तकालानलेन प्रकोपाग्नेस्साद्र्श्यादुपमालक्डारा: । श्लिष्टेन् धारापदेन जल

धाराया धारानगर्याः खङ्गधारायाश्च ग्रहणादत्र श्लेषोऽलङ्कारः । यथा प्रल याग्निभोजन्रपविस्रष्ट्जलधारानिपातमात्रेण शान्तिमाप्तुं कदापि न शक्नोति तथैव प्रलयाग्निसद्र्शप्रचण्डकोपाग्निरपि भोजप्रयुक्त खङ्ग-धारारूपधाराजलेन न शान्तिमाप्तुं प्रभवति परञ्चाऽत्र स शान्तिमाप इति विरोधः । धारापदेन धारानगर्या विमर्शन विरोधपरिहार इति बिरोधाभासालङ्कारः ।

                  भाषा
       जिस  राजा की, युद्धों में प्रलय कालीन आग के भयङ्कर स्वरूप वाली

कोरोधाग्नि, राजा भोज द्वारा चलाई हुई तलवार की धार रूपी जलधारा के पड़ते ही ठंडी हो गई, यह अचम्भे की बात है । यथार्थ में उसका क्रोध, राजा भोज

द्वारा त्यक्त धारा नगरी के अधः पतन से अर्थात् उसको जीत लेने से शान्त हुवा ।