पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुर्भाग्य से वह खड्ग् एक छोटे धारा प्रवाह के समान मालवा के राजा भोज

की राजधानी धारा नगरी को न छोड़ सका। अर्थात् अनेक बड़े २ राजाओंं को जीत लेने पर भी छोटी सी धारा नगरी को जीतने से वह अपने को न रोक सका ।

         नि:शेषनिर्वासितराजहंस्: खड्गेन बालाम्बुदमेचकेन ।
         भोजक्षमाभृदभुजपञ्जरेऽपि यः कीर्तिहंसीं विरसीचकार ॥६३॥
                               अन्वयः
        बालाम्बुदमेचकेन खड्गेन निःशेषनिर्वासितराजहंसः यः भोजक्षमा-
भूदभुजपञ्जरे श्रपि कीर्तिहंसीं विरसीचकार ।
                                व्यख्य
   बलाम्बुदः नूतनमेघो कृष्णवर्णमेघस्तद्वन्मेचकेन श्यामेन् खडगेन् कृपाणेन

निश्शेषं यथा स्यात्तथा निर्वासिता स्वनिवासाद्वहिः कृता राजहंसा राजानो हंसा इवेति राजहंसा राजश्रेष्ठा पक्षे मानसं प्रापिता राजहंसपक्षिणो येन सः। य आहवमल्लदेवो नाम राजा भोजनामा क्षमाभूद्राजा तस्य भुजः पञ्जर इव तस्मिन् सर्वसुखसामग्रोनिधानेऽपि कीतिरूपिणीं हंसीं पतिवियोगाद्विरसीचकार दुःखसागर- निमग्नां चकार । भोजराज कोतिरपि निराधारा सती दुःखिता जाता । वर्षा

काले मानसं यान्ति हंसा इति प्रसिद्ध्यनुरोधान्मेघान्विलोक्य हंसाः स्वस्थानं त्यजन्ति मानसञ्च गच्छन्ति । बालाम्बुदेन खड्गस्य सादूश्यादुपमा । राजसु राजहंसपक्षिणामभेदारोपाकीतौं हंस्या अभेदारोपाद्भोजराजभुजे पञ्जराभेदा- रोपाच्च सावयवरूपकम् ।