पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

महाकाव्य और नाटकादि दस रूपकों में ग्रथित किया था । अर्थात् जैसे रामचन्द्र का चरित्र महाकवियों ने विभिन्न प्रकार के काव्यों में वर्णित किया है वैसे ही इसका भी चरित्र महाकवियों ने विभिन्न प्रकार के काव्यों में वर्णित किया था ।

       भूपेषु    कूपेष्विव    रिक्त-भावं    कृत्वा   प्रपापालिकयेव   यस्य ।
       वीरश्रिया    कीर्तिसुधारसस्य    दिशां    मुखानि     प्रणयीकृतानि ॥८९ ।।
                                   
                                              अन्वयः
               यस्य   प्रपापालिकया   इव   वीरश्रिया   कूपेषु   इव   भूपेषु   कीर्तिसुधारसस्य
         रिक्तभावं   कृत्वा    दिशां   मुखानि   प्रणयीकृतानि  । 
                                              व्यारव्या
   यस्य     राज्ञ     आहवमल्लदेवस्य     प्रपा     पानीयशालिका     ‘प्रपा  पानीयशालिका'

इत्यमरः । तस्याः पालिकयेव जलप्रदानरतया नार्येव वीरश्रिया वीरलक्ष्मा कूपेष्विव भूपेषु राजसु कीर्तिर्यशाः सुधारस इवामृतरस इव तस्य रिक्तभावं शून्यत्वं विधाय कृत्वा दिशां मुखानि प्रणयीकृतानि स्नेहाद्रीर्कृतानि । यथा प्रपापालिका कूपस्थसम्पूर्णजलं सर्वदिक्स्थजनान् पाययित्वा तेषां मुखानि प्रसादयति , कूपानि च जलरहितानि करोति तथैव वीरश्रीः सर्वान् विपक्ष-भूपान् कीर्तिशून्यान् विधायाऽस्य कीर्त्या सर्वा दिशो धवलयतिस्म तत्स्थाञ्जनानाऽऽनन्दयतिस्मेतिभावः । वीरलक्ष्म्याः प्रपापालिकासादृश्याद्भूपेषु कूपसादृश्याच्चोपमा । दिगन्त-विश्रान्त यशा असौ वीर इति भावः ।

                                                      भाषा