पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः मैथिलीशः तं रावणं प्रसाध्य यां कुलराजधानीम् अध्युवास ताम् अव्व दातकीर्तिम् अयोध्याम् पुरीं ते क्षत्रियाः निवास विदधुः । यान्ख्या मैथिल्यास्सीताया ईशः पतिः श्रीरामचन्द्रस्तभ्प्रसिद्धं रावणं लङ्केश प्रसाध्य निहन्य यां प्रसिद्धां कुलस्य वंशस्य राजधानीं प्रधालनगरं कुलपरम्परागत राजधानीमित्यर्थः । अध्युवास यस्यां निवासं चकार ‘अधिशीङस्थासां कर्मेत्या धारभूताया राजधान्याः कर्मत्वम् ! तां प्रसिद्धामवदाता धवला ‘अवदात्तः सितो गौरोऽवलक्षोधवलोऽर्जुनः ' इत्यमरः । कीर्तिर्यशो यस्याः तामयोध्या मयोध्यानाम्नीं पुरीं, ते क्षत्रियास्तच्चालुक्यवंशीयाः क्षत्रिया राजानो निवासं निवासस्थानं विदधुश्चकुः । भाषा उस रावण को मार कर श्री रामचन्द्र ने जिस कुलपरम्परागत राजधानी में निवास किया था, उसी शुभ्रयशवाली अयोध्या नगरी में ये चालुक्यवंशीय क्षत्रिय राजा लोग रहने लगे । जिगीषवः केऽपि विजित्य विश्धं विलासदीक्षारसिकाः क्रमेण । चक्रुः पदं नागरखण्डचुम्बि-पूगद्रुमायां दिशि दक्षिणस्याम् ॥६४॥ अन्वयः जिगीषवः के अपि विश्धं विजित्य क्रमेण विलासदीक्षारसिकाः (सन्तः) नागारखण्डचम्बिपगद्रमायां दक्षिणस्यां दिशि पदं चक्रः ।