पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीक्ष्णाग्रभागो यस्य सः कृपाणः खङ्गः तेषामिदं तदीयं तानि शत्रुसम्बन्धीनि कपालान्येव शिरोस्थीन्येव शाणोपलपट्टिकाः तीक्ष्णताप्रवर्धकयन्त्रविशेषाः “सान' इति लोके प्रसिद्धम् । तासु पटुतां तीक्ष्णतां निन्ये प्रापितः । कपालोपरि शाणोपलपट्टिकात्वारोपापकम् । कण्ठे पीठाभेदाच्चरूपकम् । भाषा जिस वंश के राजाओं ने, शत्रुओं की कड़ी २ गले की हड्डियों के काटने से कुन्द धार वाली तलवार की धार, शत्रुओं के सिर की हड्डी रूपी सान पर चढ़ा कर तेज की । निरादरश्चन्द्रशिखामणौ यः प्रीतेऽपि लोकत्रितयैकवीरः । क्षिपन्कृपाणं दशमेऽपि मूर्धेिन स्वयं धृतः त्माधरराजपुत्र्या ॥६२॥ अन्वयः यः लोकत्रितयैकवीरः चन्द्रशिखामणौ प्रीते अपि निराद्रः (सन्) दशमे मूर्धिन अपि कृपाण क्षिपन् क्ष्माधरराजपुत्र्या स्वयं धृतः । व्याख्या यः प्रसिद्धो लोकानां भुवनानां ‘लोकस्तु भुवने जने' इत्यमरः । त्रितयं त्रयं तस्मिन्नेकोऽद्वितीयो वीरो रावणश्चन्द्रएव शिखामणिः शिरोभूषणं यस्य सः शिवस्तमिन् प्रीतेऽपि प्रसन्नेऽपि निरादरस्सन् शिवस्य प्रसन्नतामगणयन्दशामे मूध्न्र्यपि शीर्षऽपि कृपाणं चन्द्रहासं क्षिपन्प्रहरन् क्ष्माधरस्य हिमाचलस्य राजपुत्र्य राजकन्यया पार्वत्या स्वयमेव धृतो निवारितोऽभूत् ।