पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उसे ध्यान पूर्वक देखा ।

       'कुलकारम्म्ः-

प्रकोष्ठपृष्ठस्फुरदिन्द्रनील-रलाबलीकङ्कणडम्बरेण । बन्धाय धर्मप्रतिबन्धकानां वहन्सहोत्थानिव नागपाशान् ॥४७॥

        अन्वयः

प्रकोष्ठपृष्ठस्फुरदिन्द्रनीलरत्रावलीकङ्कणडम्बरेण धर्मप्रतिबन्धकानां बन्धाय सहोत्थान् नागपाशान् वहन् इव । (सुभटो विधातुधुलुकादा- विरासीदिति पञ्चपञ्चाशत्संख्याकोकेन सम्बन्धः ।)

        व्याख्व्या

प्रकोष्ठस्य कूर्पराधोभागस्य पृष्ठे पृष्ठभागे स्फुरन्ती देदाप्यमाना येन्द्रनील- रत्नानामिन्द्रनीलमणीनां रत्नविशेषाणामावली पङ्किस्तस्याः कङ्कणङ्करभूषणं ‘कंकणं करभूषणम्' इत्यमरः । तस्य डम्बरेण मिषेण प्रकोष्ठस्थितेन्द्रनीलमणि- घटित-करभूषण-मिषेण धर्मप्रतिबन्धकानां धर्मप्रतिरोधकानामधर्मिणामित्यर्थः । बन्धाय नियन्त्रणाय जन्मना सहोत्तिष्ठन्तीति प्रादुर्भवन्तीति सहोत्थास्तान्, राज्ञो जन्मकालादेव समुत्पन्नान् नागपाशान् सर्परज्जूर्वहन्निव धारयन्निव-सुभटो धातु- श्चुलुकादाविरासीदिति सम्बन्धः । इन्द्रनीलरत्नावलीकङ्कणे नागश्स्य संभावनादुत्प्रेक्षा । सा च ‘डम्बरेण' इत्यपन्हुतिमूलत्वात्सापन्हवा ।

      भाषा

कलाई पर बंधे हुए इन्द्रनीलमणि के कंगन के मिष से, धर्म द्रोहियों को