पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तस्य वल्लभः स्वामी तस्य सूर्यस्य बिम्बं मण्डलं ‘बिम्बोऽस्त्री मण्डलं त्रिषु इत्यमरः । बिम्बफलस्य कुन्द्रू इति लोके प्रसिद्धस्य रक्तवर्णशाकफलस्य प्रतिष्ठां सवर्णत्वात्सारूप्यं दधे दधार । कुङकुमसंयुक्ताम्बुरूपार्घ्यस्य सूर्यबिम्बे प्राप्त्याऽर्घ्यस्य रक्तत्वात्सूर्य-बिम्बस्याऽपि रक्तत्वं जातमिति भावः । प्रातः कालिकसूर्यबिम्बस्य बिम्बफलस्य च सादृश्यदर्शनादुपमा । सूर्यबिम्बस्य रक्तत्वे कुङ्कुमस्य कारणत्वेन सम्भावनाद्धेतूत्प्रेक्षा ।

भाषा अर्ध्य देने में तत्पर सिद्धाङ्गनाओं के अर्ध्य के केसर से मानों लाल भया हुआ कमलिनी के जीवन के स्वामी सूर्य का मण्डल (पके हुए) कुन्दू के समान लाल दिखाई देने लगा । सुधाकरं वार्धकतः क्षपायाः संप्रेद्य मूर्द्धानमिवानमन्तम् । तद्विप्लवायेव सरोजिनीनां स्मितोन्मुखं पङ्कजवक्त्रमासीत् ।॥३६।।

अन्व्य: क्षपायाः वार्धकतः आनमन्तं मूर्द्धानम् इव सुधाकरं संप्रेक्ष्य सरोजिनीनां पङ्कजवक्त्रं तद्विप्लवाय इव स्मितोन्मुखम् आसीत् ।

व्याख्या क्षपाया रजन्या वृद्धस्य भावो वार्द्धकं तस्माद्वार्धकतो रजन्या गतप्रायत्वाद्वृ द्धावस्थात आानमन्तमधोगच्छन्तं (अस्तोन्मुखत्वात्) मूर्द्धानमिव शिर इव सुधाकरं चन्द्रं सम्प्रेक्ष्य दृष्ट्वा सरोजिनीनां कमलिनीनां पङ्कजमेव वक्त्रं मुखं, तस्य चन्द्रस्य सरोजिनीरिपुत्वात् तस्याः क्षपायाश्च रिपुस्त्रीत्वात् विप्लवायेव विडम्बनाया इव स्मितोन्मुखमीषद्धास्ययुक्तं विकासयुक्तं वाऽऽसीद्वभूव । यथा काचिन्नायिका स्वरिपु- मस्तोन्मुखं स्वरिपुस्त्रियश्च वृद्धावस्थाप्रयुक्तां नमदाननत्यादिदुरवस्थां वीक्ष्य