पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लगी । अर्थात् रात समाप्त होने से और चन्द्रमा के अस्तोन्मुख होने के कारण नीचे लटक जाने से कमलिनी धीरे २ खिलने लगी । कमलिनी रात को नहीं खिलती यह बात प्रसिद्ध है । ज्ञात्वा विधातुश्चुलुकात्प्रसूतिं तेजस्विनोऽन्यस्य समस्तजेतुः । प्राणेश्वरः पङ्कजिनीवधूनां पूर्वाचलं दुर्गमिवारुरोह ॥३७॥ अन्वयः पङ्कजिनीवधूनां प्राणेश्वरः विधातुः चुलुकात् समस्तजेतुः अन्यस्य तेज स्विन: प्रसूतिं ज्ञात्वा इव दुर्गं पूर्वाचलम् आरुरोह । व्याख्या पङ्कजिन्यो नलिन्यस्ता एव वध्वस्तासां प्राणेश्वरो जीवितेश्वरस्सूर्यो विधातु र्ब्रह्मणश्चुलुकाज्जलपूरिताञ्जलेः समस्तस्य राजवर्गस्य जेतुर्जयशीलस्याऽन्यस्य कस्यचित्तेजस्विनः प्रतापिनश्चालुक्यवंशमूलपुरुषस्य प्रसूतिमुत्पत्ति ज्ञात्वेव विज्ञा येव सकलजेतुरन्यतेजस्विनो भयादात्मरक्षार्थं दुर्ग दुष्प्राप्यस्थानं दुर्गरूपं वा पूर्वाचलमुदयाचलमारुरोह गतवानिति । सूर्योदयो जात इति भावः । अत्र पद्मिन्यां वधूतादात्म्यारोपः सूर्ये प्राणेश्वरस्याऽभेदारोपे कारणत्वात्परम्परितं रूपकम् । पूर्वाचले दुर्गाभेदाद्रूपकम् । सूर्यस्य दुर्गारोह अन्यतेजस्विन उत्पत्ति ज्ञानस्य कारणत्वेनोत्प्रेक्षणादुत्प्रेक्षा । सूर्यवृत्तान्ते तादृशाप्रकृतान्यपुरुषवृत्तान्ता भेदसमारोपात्समासोक्तिः । अत एतेषां सङ्करः । भाषा ब्रह्मा के चुल्लू से सबको जीतने वाले चालुक्य वंश के मूल पुरुष रूपी किसी दूसरे तेजस्वी की उत्पत्ति होने वाली है ऐसा मानो जानकर कमलिनी रूपी