पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तद्धटकयन्त्रस्य सूत्रं तस्य भ्रान्त्या भ्रमेण इव परस्पररात्रिवियोगकारकयन्त्र सूत्रभ्रमादिव चञ्चुस्थितं स्वप्रियायास्त्रोटिस्थितं 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । मृणालसूत्रं बिसतन्तुमाचकर्षाऽऽकृष्टवान् । रात्रौ चक्रवाक मिथुनस्य वियोगो जायत इति कविप्रसिद्धिः । प्रत्यूषे जाते चक्रवाकस्य स्व प्रियया सह संयोगो जातः । स्वप्रियाचञ्चुस्थितं वार्तालापबाधकं मृणालतन्तुं निरीक्ष्यैतदेवाऽस्मद्रात्रिवियोगकारणमिति भ्रमादतःपरमपि सूत्रेणाऽनेन वियोगो न कृतः स्यादिति धिया तदाचकर्षेतिभावः । चक्रवाककर्तृकचञ्चुस्थितमृणाल सूत्राकर्षणे मृणालसूत्रेऽन्योन्यविश्लेषणयन्त्रसूत्रस्य भ्रान्तेर्हेतुत्वेन सम्भावनप्रति पादनादुत्प्रेक्षालङ्कार:। भाषा (प्रातःकाल हो जाने पर, रातभरके वियोग के अनन्तर संयोग होने से) अपनी स्वी चकई से उत्सुकता से रस भरी मीठी मीठी बातें कहने और सुनने की अभिलाषा से, चकई की चोंच में विद्यमान कमल के डण्डे के डोरे को मानों परस्पर वियोग कराने वाले किसी यन्त्र विशेष का यह सूत्र है ऐसे भ्रम से, चकवे ने खींच लिया । (चकवा चकई का रातभर वियोग रहता है ऐसी कविप्रसिद्धि है।) आरक्तमर्घ्यार्पणतत्पराणां सिद्धाङ्गनानामिव कुङ्कुमेन। बिम्बं दधे बिम्बफलप्रतिष्ठां राजीविनीजीवितवल्लभस्य ।॥३५॥ अन्वयः अर्ध्यार्पणतत्पराणां सिद्धाङ्गनानां कुङ्कुमेन इव आरक्तं राजीविनीजी वितवल्लभस्य बिम्बं बिम्बफलप्रतिष्ठां दधे ।