पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः एषा चालुक्यनरेन्द्रवंशसमुद्रतानां मद्भारतीसूत्रनिवेशितानां गुणमौक्ति कानाम् एकावली वः कण्ठविभूषणम् अस्तु । व्याख्या एषा वाक्यावली चालुक्यनरेन्द्राणां वंशाः कुलमेव वंशो वेणुस्तस्मात्समुद्गतानां समुत्पन्नानां, वेणौ मुक्तास्समुद्भवन्ति बहुमूल्याश्च भवन्तीति प्रसिद्धिः । मद्भारती मदीयवाण्येव सूत्रं गुणस्तस्मिन्निवेशितानां गुम्फितानां, गुणा दयादा- क्षिण्यादय एव मौक्तिकानि तेषामेकावल्येकावृतो हारो वो युज्माकं कष्ठवि- भूषणमस्तु । राज्ञां गुणाः कण्ठेनोच्चार्यमाणास्सन्तः कण्ठविभूषणानि मौक्तिकानि कण्ठे धार्यमाणानि कण्ठविभूषणानीति भावः । अत्र गुणेषु मौक्तिकारोपे, वंशे वेणुत्वारोपस्थ कारणत्वात्परम्परितं रूपकम् । वाक्यावल्यामेकावल्यारोपे भारत्यां सूत्रत्वारापस्य कारणत्वाच्च परम्परितं रूपकम् । ‘नियता रोपणोपायः स्यादारोपः परस्य यः । तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा' इति । भाषा चालुक्य राजाओं के वंश रूपी बांस में से उत्पन्न यह दया दाक्षिण्यादि गुण त्रीी मोतियों का, मेरी वाणी रूपी डोरे में परोया हुआ, वाक्यावली रूपी एकलङ्का हार, आप लोगों के कण्ठ का आभूपण हो । अर्थात् चालुक्य वंशीय राजाओं के दादाक्षिण्वादिगुणों की मेरी वाणी में वर्णित वाक्यावली आप लोगों के कण्ठ ने उच्चरित होकर उसे सुशोभित करे जिस प्रकार बांस की मोतियों का ॐोरं मे परोया हुआ एकलड़ा हार कण्ठ को सुशोभित करता है । साम्प्रतं चालुक्यवंशमुलपुरुषोत्पत्ति प्रस्तौति