|
|
ठयाख्या
चत्वारि मुखानि यस्य सः चतुर्मुखस्तस्य चतुर्मुखस्य यस्य ब्र्ह्मणः सम्बन्धीनि तन्मुखेभ्यो निसृतानीत्यर्थः । चत्वारि चतुः संख्याकानि काव्यानि काव्यरूपाणि चतस्रः श्रुतयो वेदाः प्रसिद्धाः ख्याता असौ प्रसिद्धः सरस्वत्या वाग्देव्या वाङ्मयस्य वा विभ्रमाणां विलासानां भूरुत्पत्तिस्थानमाश्रयो वा स्वयम्भूब्रह्म्मा सप्तस्वपि भूर्भुवस्वर्महोजनस्तपःसत्येषु लोकेषु भुवनेषु ‘लोकस्तु भुवने जने' इत्यमरः । प्रसिद्धो विख्यात अस्तीति । सरस्वती वेधसः कन्येति पत्नीतिचेत्युभयं लोक प्रसिद्धम् । सरस्वत्याः पतिर्बहोति हेतोः सरस्वती तस्मिन्स्वमञ्जुलविलासादि चेष्टाभिस्सरसत्तामापादयति कन्यात्वेनाऽऽनन्दञ्च जनयति ।
भाषा
जिस चार मुख वाले ब्रह्मा के चार मुखों से निकले हुए चार काव्य चार वेद हैं, ऐसी प्रसिद्धि है, वह सरस्वती के विलास का स्थान स्वयम्भू ब्रह्मा सातों लोकों में प्रसिद्ध है ।
एकस्य सेवातिशयेन शङ्के पङ्केरहस्यासनतां गतस्य ।
आराधितो यः सकलं कुटुम्बं चकार लक्ष्मीपद्मम्बुजानाम् ॥३२॥'
अन्वयः
श्रासनतां गतस्य एकस्य पङ्केरुहस्य सेवातिशयेन श्राराधिता य: अम्बुजानां सकलं कुटुम्बं लक्ष्मीपदं चकार (इति) शङ्के ।
व्याख्या
(ब्रह्मणः) आसनतामुपवेशनस्थानतां गतस्य प्राप्तस्यैकस्य कस्यचित्पङ्करुहस्य