पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्यसम्बन्धेन श्लाध्यत्वकथनादुदात्तालङ्कारश्च । ‘लोकातिशय-सम्पत्तिवर्ण नोदात्तमुच्यते । यद्वापि प्रस्तुतस्याङ्ग महतां चरितं भवेत्' । भाषा मेरी नीरस वाणी का भी व्यापार (यह काव्य) राजा विक्रमाङ्कदेव के चरितों के कारण आदरणीय होगा । कौन मनुष्य गङ्गा की नीरस मिट्टी (सूखी मिट्टी) को अपने मस्तक पर धारण नहीं करते अर्थात् नहीं लगाते । अर्थात् गङ्गा का सम्बन्ध होने से सूखी मिट्टी भी जैसे आदरणीय होती है वैसे ही महाराज विक्रमाङ्कदेव का सन्बन्ध होने से मेरा नीरस काव्य भी आदरणीय होगा । कर्णामृतं सूक्तिरसं विमुच्य दोषे प्रयत्नः सुमहान्खलानाम् । निरीश्चते केलिवनं प्रविश्य क्रमेलकः कण्टक-जालमेव ।॥२९ ।। श्रयन्वयः खलानां कर्णामृतं सूक्तिरसं विमुच्य दोषे सुमहान् प्रयत्नः । क्रमेलकः केलिवनं प्रविश्य कण्टकजालम् एव निरीक्षते । व्याख्या खलानां पिशुनानां पिशुनो दुर्जनः खलः' इत्यमरः । कर्णयोरमृतं श्रुति रसायनं सूक्तिरसं सुभाषितानन्दं विमुच्य परित्यज्य दोषे दोषान्वेषणे (एव) सुमहान्विशेषः प्रयत्नः प्रयासो भवति । क्रमेलक उष्ट्रः केलिवनं क्रीडोद्यानं प्रविश्य गत्वा कण्टकानां कण्टकीवृक्षाणां जालं समूहमेव निरीक्षते पश्यत्यन्विष्य तीत्यर्थः । तेषां कृते कण्टकीवृक्षाणामेव प्रियत्वं न तु सुगन्धिपुष्पादिभिरुद्यान रभणीयताया इति भावः । अत्र दृष्टान्तालङ्कारः ।