पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत् लङ्कापतेः यशः सङ्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः एव आदिकवेः प्रभावः, क्षितीन्द्रे: कवयः न कोपनीयाः । दयाख्या यल्लङ्कापते रावणस्य यज्ञाः कीर्तिः ‘यशाः कीर्तिः समज्ञा च स्त्वः स्तोत्रं स्तुति र्नुतिः' इत्यमरः । सङकुचितमविस्तृतं नष्टमित्यर्थः । यद्रघुराजस्य दशरथस्य पुत्रो रामः कीर्तिपात्रं यशोभाजनं जातः स सर्व एवाऽऽदिकवेर्वाल्मीकेः प्रभावः कौशलं कार्यमित्यर्थः । अतः क्षितीन्त्रै राजभिः कवयो न कोपनीया न क्रोधनीयाः नापमाननीया इतिभावः । यदिति वाक्यार्थपरामर्शकः । भाषा रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के पुत्र राम जी, जी कीर्ति के पात्र हुए, यह सब आदि कवि बाल्मीकि का ही प्रताप है । इसलिए राजाओं को कभी भी कवियों को कुपित न करना चाहिये । गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः । केवा न शुष्कां मृदमभ्रसिन्धु-सम्वन्धिनीं मूर्द्धनि धारयन्ति ॥२८॥ अन्वयः मम नीरसा अपि गिरां प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के वा शुष्काम् अभ्रसिन्धुसम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति । व्याख्या मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्तिः प्रवर्तनं व्यापारो वा