यत् लङ्कापतेः यशः सङ्कुचितं यत् रघुराजपुत्रः कीर्तिपात्रं, सः सर्वः
एव आदिकवेः प्रभावः, क्षितीन्द्रे: कवयः न कोपनीयाः ।
'व्याव्या'
पुत्रो रामः कीर्तिपात्रं यशोभाजनं जातः स सर्व एवाऽऽदिकवेर्वाल्मीकेः प्रभावः
कौशलं कार्यमित्यर्थः । अतः क्षितीन्त्रै राजभिः कवयो न कोपनीया न क्रोधनीयाः
नापमाननीया इतिभावः । यदिति वाक्यार्थपरामर्शकः ।
'भाषा'
रावण की कीर्ति जो न फैल सकी अर्थात् नष्ट हो गई और दशरथ जी के पुत्र राम जी, जी कीर्ति के पात्र हुए, यह सब आदि कवि बाल्मीकि का ही प्रताप है । इसलिए राजाओं को कभी भी कवियों को कुपित न करना चाहिये ।
गिरां प्रवृत्तिर्मम नीरसाऽपि मान्या भवित्री नृपतेश्चरित्रैः ।केवा न शुष्कां मृदमभ्रसिन्धु-सम्वन्धिनीं मूर्द्धनि धारयन्ति ।।29।।
अन्वयः
'
मम नीरसा अपि गिरां प्रवृत्तिः नृपतेः चरित्रैः मान्या भवित्री । के वा शुष्काम् अभ्रसिन्धुसम्बन्धिनीं मृदं मूर्द्धनि न धारयन्ति । व्याख्या मम मदीया नीरसाऽपि रसरहिताऽपि गिरां वाचां प्रवृत्तिः प्रवर्तनं व्यापारो वा