पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृथ्वीपतेः सन्ति न यस्य पार्श्वे कवीश्वरास्तस्य कुतो यशांसि । भूपाः कियन्तो न बभूवुरुव्यां जानाति नामाऽपि न कोऽपि तेषाम् ' ॥२६॥ अन्वयः यस्य पृथ्वीपतेः पार्थे कवीश्वराः न सन्ति तस्य यशांसि कुतः । उव्यां कियन्त: भूपाः न बभूवुः तेषां नाम अपि कः अपि न जानाति । व्याख्या यस्य पृथ्वीपते राज्ञः पाश्र्वे कवीश्वराः कवीन्द्रा न सन्ति न शोभन्ते तस्य भूपस्य यशांसि कीर्तयः ‘यशः कीर्तिः सम्मज्ञा च स्तवस्तोत्रं स्तुतिर्नुतिः' इत्यमरः। कुतो, न कुतोऽपीत्यर्थः । यशसः प्रख्यापकानामभावात्कुतो यशःप्रतिष्ठेतिभावः । उव्य महीमण्डले कियन्तः कतिसंख्याका भूपा राजानो न बभूवुर्न जाताः(परं) तेषां नामाऽपि संज्ञामपि कोऽपि मनुष्यो न जानाति । काव्यैकनिबद्धमेव राज्ञां यशाश्चिरस्थायि भवतीति राज्ञां यशसोऽपयशासो वा कवीश्वरा एव निदानमिति भावः । भाषा जिस राजा के पास में (दरबार में) अच्छे कवि नहीं हैं उसका यश कहाँ से फैल सकता है। इस पृथ्वी पर क्यो कितने ही राजा ऐसे नहीं हुए हैं जिनका नाम भी कोई मनुष्य नहीं जानता है ।