पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

किं चारुचारित्रविलासशून्याः कुर्वन्ति भूपाः कविसंग्रहेण । किं जातु गुञ्जाफलभूषणानां सुवर्णकारेण वनेचराणाम् ॥२५॥ अन्वयः चारुचारित्रविलासशून्याः भूपाः कविसंग्रहेण किं कुर्वन्ति । गुञ्जाफल भूषणानां वनेचराणां सुवर्णकारेण जातु किंम् ।

व्याख्या चारु सुन्दरं सत्काव्यपरिचयेन सहृदयहृदयसंवादि चारित्रं चरितं तस्थ्य विलास उत्कर्षस्तेन शून्या रहिताः काव्यमहत्वासंबेदिनो दुश्चरिता भूपा राजान्: कवीनां संग्रहेणाऽऽश्रयप्रदानेनाऽऽश्रयं प्रदाय स्वराजसभायां स्थापनेनेत्यर्थः कि कुर्वन्ति न किमपीत्यर्थः । दुश्चरितानां राज्ञां कवि संग्रहेण न कोऽपि लाभः । ये कविमहत्वमेव न विदन्ति तेषां कृते कवयो निष्प्रयोजनका इति भावः । गुञ्जाफलं कृष्णलाफलं ‘काकचिंची गुंजे तु कृष्णला' इत्यमरः । एव भूषणमलङ्कारो येषां तेषां वनेचराणामारण्यकाना सुवर्णकारेण स्वर्णभूषणनिर्माणकेन जातु कदाचिदपि किं, किं प्रयोजनं, न किमपीत्यर्थः । सुवर्णकाराः सुवर्णस्य भूषणानि निर्मान्ति तानि तु वनेचरा न समाद्रियन्ते यतस्तेषां कृते गुञ्जैव महद्भूषणमिति सुवर्णकारास्तेषां कृते निष्प्रयोजनकास्तथैव कवयः सुचरित्रमेव राजानं भजन्ते न दुश्चरितम् । दुश्चरितानां राज्ञां कृते ते कवयो निष्प्रायोजनका इति भावः । अत्र दृष्टान्तालङ्कारः ।

भाषा जो राजा असच्चरित्र हैं वे अपने दरबार में कवियों का संग्रह कर क्या भाषणो