पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न शारदादेशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः ॥२१॥ कविताविलासाः कुङ्कमकेसरणां नूनं सहोदराः भवन्ति । यत् मया तेषां प्ररोहः शारदादेशम् अपास्य अन्यत्र न दृष्टः । व्याख्या कवितायाः सत्कविताया । विलासा बिभ्रमाः कुङकुमस्याऽग्निशिखस्य ‘अथ कुङ्कुमम् । कश्मीरजन्माग्निशिखं वरं वाह्लीकपीतने' इत्यमरः । केसराः किञ्ज ल्काः किञ्जल्कः केसरोऽस्त्रियाम्' इत्यमरः । तेषां नूनं निश्चयेन सहोदरा एकदेशजन्यत्वाद्ञ्भ्रात्रो भवन्ति सन्ति । यद्यस्मात्कारणान्मया कविना बिल्हणेन तेषां कविताविलासानां कुङकुमकेसराणाञ्च प्ररोहोऽङकुर उद्भगम इत्यर्थः । ज्ञारदाया: सरस्वत्या आदेशं प्रसादं पक्षे शारदायाः सरस्वत्या देश कश्मीरमपास्य विहायाऽन्यत्राऽन्यस्मिन् पुरुषे शारदाप्रसाद रहित इत्यर्थः पक्षेऽन्यस्मिन् देशे न दृष्टो नाऽवलोकितः । शारदाप्रसादं विना न कविताविलासोद्गमः । कश्मीरदेशं विहाय नान्यत्र कुङकुमकेसरोद्गम इति भावः । अन्वयः उत्तम कविता के विलास और केसर दोनों निश्चय ही सगे भाई हैं । शारदा के आदेश बिना अर्थात् सरस्वती की कृपा बिना अच्छी कविता की उत्पत्ति और शारदा देश बिना अर्थात् कश्मीर बिना केसर की उत्पत्ति, अन्यत्र होती हुई मैंने नहीं देखी है । ९ - रसध्वनेरध्वनि ये चरन्ति संक्रान्तवक्रोक्तिरहस्यमुद्राः । - मा -

= 1 । ) ) । ।