पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कथासु ये लब्धरसाः कवीनां ते नानुरज्यन्ति कथान्तरेषु । न ग्रन्थिपर्णप्रणयाश्चरन्ति कस्तूरिकागन्धमृगास्त्रुणेषु ॥१७॥ अन्वयः ये कवीनां कथासु लब्धरसाः ते कथान्तरेषु न अनुरज्यन्ति । ग्रन्थि- पर्णप्रणयाः कस्तूरिकागन्धमृगाः तृणेषु न चरन्ति । व्याख्या ये जनाः कवीनां क्रान्तदर्शिनां कवीनां कथासु रचनासु लब्धः प्राप्तो रस आनन्दो यैस्ते लब्धरसा अनुभूताल्हादास्ते कथान्तरेष्वन्यासु कुकविरचनासु नाऽ- नुरज्यन्ति नाऽनुरक्ता भवन्ति । ग्रन्थिपर्णानाम सुगन्धिक्षुपविशेषः 'ग्रन्थिपर्णं शुकं बर्हपुष्पं स्थौणेयकुक्कुरें' इत्यमरः । 'गंठिवन’ ‘भटोरा' इति भाषायां ख्यातः । तस्मिन् प्रणयः स्नेहो येषां ते, कस्तूरिकाया गन्धो येषु ते मृगा हरिणाः कस्तूरिमृगास्तृणेषु घासेषु ‘शष्पं बालतृणं घासः'इत्यमरः । न चरन्ति न भक्षणप्रीतिं जनयन्ति । अत्र द्रुष्टान्तालङ्कारः । भाषा जो लोग अच्छे कवियों के काव्यों को पढ़कर आनन्द प्राप्त कर चुके हैं वे अन्य छोटे मोटे कवियों के काव्यों में आनन्द नहीं प्राप्त कर सकते । गंठिवन नाम के सुगन्धित र्पौधे को खाने के प्रेमी कस्तूरिमृग अन्य घासपात नहीं चरते । जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु के वराकाः । प्राप्ताग्निनिर्वापणगर्वमम्बु रत्नांकुरज्योतिषि किं करोति ॥१८ अन्वयः जडेषु जातप्रतिभाभिमानाः खलाः कवीन्द्रोक्तिषु वराकाः के । प्राप्ता-