पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्फोटितानि दादर्यातिशयात्त्रोतटितानि विदारितानीत्यर्थः कञ्चुकानि कुचावरणां- शुकानि यैस्तानि कान्तानां प्रेयसीनां कुचमण्डलानि स्तनमण्डलानि वन्द्यानि स्तुत्यानि भवन्ति । अत्र द्रुष्टान्तालङ्कारः । भाषा प्रौढि प्रकर्ष से अर्थात् रसः गुण अलङ्कार आदि की विशिष्ट चमत्कृति के प्राबल्य से, प्राचीनकाल से प्रचलित अथवा प्राचीन कवियों द्वारा प्रयुक्त पद- विन्यास का यदि त्याग किया जाए तो वह प्रशंसनीय है । अत्यन्त उच्चता तथा काठिन्य से चोली को फाड़ देने वाले रमणियों के स्तनमण्डल सराहना करने योग्य होते हैं । व्युत्पत्तिरावर्जितकोविदाऽपि न रञ्जनाय क्रमते जडानाम् । न मौक्तिकच्छिद्रकरी शलाका प्रगल्भते कर्मणि टङ्किकायाः ॥१६॥ अन्वयः आवर्जितकोविदा अपि व्युत्पत्तिः जडानां रञ्जनाय न क्रमते । मौक्तिकच्छिद्रकरी शलाका टङ्किकायाः कर्मणि न प्रगल्भते । व्याख्या आवर्जिता आकृष्टाः कोविदाः पण्डिताः 'विद्वान्विपष्चिद्दोषनजः सत्सुधीः कोविदो बुधः। धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः' । इत्यमरः । यया साऽऽवजितकोविदाऽपि पण्डितनामाकर्षिकाऽपि विशिष्टेत्यर्थः । व्युत्परतिर्नू- तनकल्पना लौकिकरचनाकौशलं जडानां मूर्खाणां रञ्जनाय प्रसादार्थं न क्रमते न समर्था भवति। मौक्तिकेषु मुक्तासु च्छिद्रं रन्ध्रं 'छिद्रं निर्व्यथनं रोकं रन्ध्रं इवभ्रं