पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ । -७ साहत्याविधाया क्रुतभूरिश्रमा एव काव्यस्य यथार्थमाहात्म्यं जानन्ति न तु मतिहीना अविद्वांस इति भावः । अङ्गनानां कामिनीनामनार्द्रेषु तैलादि स्निग्धपदार्थाननुलिप्तेषु केशेषु कचेषु कृष्णागरोश्चन्दनकाष्ठविशेषस्य कस्तूरी मिश्रितसुगन्धद्रव्यस्य वा धूपवासः सुगन्धः (अग्नौ सुगन्धद्रव्यं प्रक्षिप्य तदूमोपर्या- र्द्रेकेशानामनाद्वैकरणं लोके प्रसिद्धम् ।) कि कुर्याद्विडम्बनायैवेत्यर्थः। न तस्य किञ्चिदुपयुक्तं फलम् । अत्र दृष्टान्तालङ्कारः । भाषा कवियों का गुण (वैशिष्ट्य) साहित्यविद्या का अभ्यास करने में परिश्रम न करने वाले तथा नीरस मनुष्यों पर अपना प्रभाव नहीं डाल सकता । स्त्रियों के स्निग्धता रहित सूखे हुए केशों में चन्दनविशेष या कस्तूरीमिश्रित सुगन्धित द्रव्यों का धूप क्या कर सकता है । अर्थात् सूखे हुए केशों को सुगन्धित धूप देने से उनमें सुगन्ध नहीं आ सकती । प्रौढिप्रकर्षेरा पुराणरीति-व्यतिक्रमः श्लाध्यतमः पदानाम् । अत्युन्नतिर्फोटितकङ्कानि बन्द्यानि कान्ताकुचमण्डलानि ॥१५॥ अन्वयः पदानां प्रौढिप्रकर्षेण पुराणरीतिव्यतिक्रमः श्लाघ्यतमः । अत्युन्नति- स्फोटितकञ्चुकानि वन्द्यानि,कान्ताकुचमण्डलानि । १ ‘‘अत्र ‘प्रौढि' पदं प्राचीनाऽलङ्कारिकस्वीकृतगुणविशेषसात्रपरमितिव्याख्या- तुं नोचितम् । ताद्रुशार्थकरणे सङ्कुचितार्थप्रत्यायकत्वेन कवेरभिप्रायः स्फुटो न स्यात् । अत्र तु 'प्रौढि’ शब्देन कविप्रतिभाविशेषस्तन्मूलको ध्वन्यलङ्कारादि- सन्निवेशश्च विवक्षित इति । ! }