पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः (यद्यपि) विशारदानां वैदर्भलीलानिधयः प्रबन्धाः सहस्त्रशः सन्तु । तथापि वैचित्र्यरहस्यलुब्धाः सचेतसः श्रन्न श्रद्धां विधास्यन्ति । व्याख्या यद्यपि विशारदानां काव्यनिर्माणकलाप्रवीणानां महाकवीनां वैदर्भी लीलेति वैदर्भलीला विदर्भदेशप्रसिद्धो दक्षिणात्यानां कविताविलसस्तस्य निधय आकर- भूताः प्रबन्धाः कृतयस्सहस्त्रशोऽगणितास्सन्तु नाम 'नामेति सम्भावनायाम्' । तथापि वैचित्र्यं चमत्कारो ध्वन्यलङ्कारसन्निवेशजन्यस्तस्य रहस्ये मर्मणि लुब्धा लोलुपास्सचेतसः काव्यानुभवानुकूलचेतसा सह वर्तमाना इति सचेतसः सहृदय विद्वांस अत्र विक्रमाङ्कदेवचरितनाम्नि काव्ये श्रद्धां संधां ‘संधा प्रतिज्ञा मर्यादा श्रद्धा संप्रत्ययः स्पृहा' इत्यमरः । विशेषप्रीतिमित्यर्थः । विधास्यन्ति करिष्यन्ति । भाषा यद्यपि काव्यनिर्माणकला में प्रवीण महाकवियों के विदर्भ देशीय दाक्षिणात्यो की वैदर्भीरीति के असंख्य काव्य भले ही विद्यमान हों तो भी ध्वनि, अलङ्कार आदि के सन्निवेश से उत्पन्न होनेवाली विचित्रता के मर्म को समझकर मोहित होनेवाले सहृदय विद्वदगण विक्रमाङ्कदेवचरित नामक काव्यपर विशेष प्रेम करेंगे । कुण्ठत्वमायाति गु णः कवीनां साहित्यविद्याश्रमवर्जितेषु । कुर्यादनार्द्रेषु किमङ्गनानां केशेषु कृष्णागरुधूपवासः ॥१४॥