पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाषा हे कवियों में श्रेष्ठ कविगण, साहित्यरूपीसमुद्र के मंथन करने में चिरकाल तक अभ्यास करने से उत्पन्न और कान को सुख देनेवाले व अमृत की सदैव रक्षा करते रहिए । क्योंकि इस काव्यरूपी अमृत व करने के लिए, समुद्रमन्थन के समय अमृत की चोरी करने में लालाटि के समान बहुत से काव्य रूपी धन के चोर एकत्रित हो गए हैं । गृण्हन्तु सर्वे यदि वा यथेष्टं नास्ति क्षतिः कापि कवीश्वराणाम् रत्नेषु लुप्तेषु बहुष्वमर्त्यरध्यापि रत्नाकर एव सिन्धुः । अन्वयः यदि वा सर्वे यथेष्टं गृण्हन्तु। कवीश्वराणां का अपि क्षतिः न अमत्यैः बहुषु रत्नेषु लुप्तेषु अद्य अपि सिन्धुः रत्नाकरः एव । व्याख्या यदि वा अथवा पक्षान्तरे सर्वे काव्यार्थचौरा यथेष्टमिष्टमनतिक्रम्य य तथा यथेष्टं यथेच्छं गृण्हन्तु काव्यरूपं कर्णामृतं स्वोपयोगे समानयन्तु । कवीश्वराणां कवीन्द्राणां काऽपि काचिदपि क्षतिर्हीनिर्नास्ति न सम् अमर्त्यैदैवैः "अमरानिर्जरादेवाः—आदित्या ऋभवोऽस्वप्ना अमर्त्या अमृत इत्यमरः । बहुष्वसंख्यातेषु रत्नेषु लुप्तेषु अपहृतेषु सत्स्वप्यद्यापि साग सिन्धुः समुद्रः ‘उदन्वानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः' इत्यमरः । मणीनामाकरो निधिरेव प्रसिद्धः। देवैः प्रचुररत्नानि ग्रुहीतानि तथापि रत्नाकरत्वप्रयुक्तं माहात्म्यं पूर्ववदेव । अत्र द्रुष्टान्तालङ्कारः ‘द्रुष्ट सधर्मस्य वस्तुनः प्रतिबिम्बनम्’ । भाषा