पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याख्या पार्श्वस्था समीपस्था या पृथ्वीधरराजस्य हिमाचलस्य कन्या पुत्री पार्वती तस्याः प्रकोपस्य क्रोधस्य विस्फूजितेन विलसितेन कातरस्य भीतस्य शिवस्य हे मातर्जगज्जननि ते तुभ्यं नमोऽस्त्विति सन्ध्याविषयाः सन्ध्याकालाधिष्ठातृ- देवताकर्मकाः प्रणामा जयन्ति सर्वोत्कर्षेण वर्तन्ते । अन्यनायिकायां स्नेहभ्रमा- स्पार्वत्याः प्रकोपोदयः । कदाचिच्छङ्करः सन्ध्यां प्रति ध्यानावस्थितत्वं प्रकटयन्, भवान्यां कथमयमन्यनायिकायामनुरक्त इति भावेन नितरां क्रुद्धायां हे मातस्तुभ्यं नम इति सन्ध्यां प्रणम्य पार्वतीगतसन्देहं निवारितवान् । भापा पास ही में बैठी हुई पार्वती के क्रोध के आविर्भाव से डरे हुए शंकर भगवान् के, हे माता मैं तुमको नमस्कार करता हूँ, ऐसा कह कर सन्ध्याकालीन देवता को किये हुए प्रणाम अत्यन्त महत्व के हैं। अर्थात् शंकर को सन्ध्यारूपी कामिनी में अनुरक्त समझ कर, पार्वती के अत्यन्त क्रुद्ध होनेपर, शंकर ने सन्ध्या की अधिष्ठातृ देवता को माता कह कर प्रणाम करके पार्वती का भ्रम दूर करते हुए उसके क्रोध को शान्त कर दिया । वचांसि वाचस्पति-मत्सरेण साराणि लब्धुं ग्रहमण्डलीव । मुक्ताक्षसूत्रत्वमुपैति यस्याः सा सप्रसादास्तु सरस्वती वः ॥।७॥ अन्वयः प्रहमण्डली वाचस्पतिमत्सरेण साराणि वचांसि लब्धुम् इव यस्याः मुक्ताक्षसूत्रत्वम् उपैति सा सरस्वती वः सप्रसादा अस्तु । व्याख्या