पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः

      सोल्लासलक्ष्मीप्रतिबिम्बगर्भः नन्दकः मुरारेः यमुनाप्रवाहसलीलराधा
  स्मरणम् अजस्रम् कुर्वन् वः सान्द्रां मुदं यच्छतु ।
                           व्याख्या
  उल्लासेन सहिताया हर्षोंत्फुल्लाया लक्ष्म्याः प्रतिबिम्बं प्रतिच्छाया गर्भेऽभ्यन्तरे

यस्यैवम्भूतो नन्दको नन्दकनामा विष्णोः खड्गः ‘शंखो लक्ष्मीपतेः पाञ्चजन्यश्चकं सुदर्शनम् । कौमोदकी गदा खड्गो नन्दकः कौस्तुभोमणिः' इत्यमरः । मुरारेः कृष्णस्य यमुनाप्रवाहे सलीलाधा विहरन्त्या राधायाः स्मरणं स्मृतिमजरुत्रं सततं र्वन् मुरारिकर्तृकं यमुनाप्रवाहान्तर्गतविहरमाणराधाकर्मकस्मरणं निरन्तरं हेतुत्वे ोत्पादयन् कारयन्नित्यर्थः । अन्तभवितण्यर्थोऽ यं कृ धातुः । सान्द्रां घनीभूतां दमानन्दं वो युष्मान् युष्मभ्यं वा यच्छतु ददातु । नन्दकस्य यमुनाप्रवाहेण क्ष्म्याश्च राधया साम्यमिति श्री कृष्णस्य स्मृतिस्संगच्छते । प्रतिबिम्बित क्ष्मीके नन्दके दृष्टे सति भगवतः सादृश्याद्यमुनाप्रवाहान्तर्गत-लीलासक्तराधि याः स्मरणात्स्मरणालङ्कारः । सादृश्यज्ञानोद्बुद्धसंस्कारप्रयोज्यं स्मरणं रणालङ्कारः ।

                            भाषा
   प्रसन्नचित्त लक्ष्मी की परछाहीं से युक्त नन्दक नाम का विष्णु का खङ्ग

| लोगों को अधिक आनन्द दे । जो यमुना नदी में लीला करने वाली राधिका भगवान् को निरन्तर स्मरण कराने वाला है । अर्थात् जो विष्णु को काले के खड्गरूपी यमुना नदी में प्रसन्न लक्ष्मीरूपी कृष्णावतार में अनुभूत धका का सतत स्मरण करा रहा है ।