पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वचांसि ज्ञानप्रदविशिष्टवाक्यानि लब्धुमिव बृहस्पतितोऽप्यधिकं ज्ञानं प्राप्तुमिव यस्याः सरस्वत्या मुक्ताक्षसूत्रत्वं मौक्तिकजपमालात्वमुपैति प्राप्नोति, मुक्ताक्षः सूत्रव्याजेन सरस्वतीमुपसेवते । सा सरस्वती शारदा वाग्देवता वो युष्मभ्यं सप्रसादा प्रसन्ना अस्तु । बृहस्पतिमत्सर्यहेतुकवचस्सारप्राप्तीच्छाया ग्रहमण्डल्यां मुक्ताक्षसूत्रत्वारोपे फलत्वेनोत्प्रेक्षणात्फलोत्प्रेक्षेव-पदवाच्या । भाषा बृहस्पति के अतिरिक्त अन्य ग्रहगण, वृहस्पति ग्रह होते हुए भी वाणी का पति और देवगुरु है, इस ईर्ष्या से, बृहस्पति से भी अधिक ज्ञान की विशिष्ट बातें जानने की इच्छा से, जिस सरस्वती की मोती की जपमाला में मानों मोती बन कर उसकी सेवा करते हैं, ऐसी सरस्वती तुम लोगों पर प्रसन्न हो ।

अशेषविघ्नप्रतिषेधदक्ष-मन्त्राक्षतानामिव दिङ्मुखेषु । विक्षेपलीला करशीकराणां करोतु वः प्रीतिमिभाननस्य ॥८॥ अन्वयः इभाननस्य अशेषविघ्नप्रतिषेधदक्षमन्त्राक्षतानाम् इव करशीकराणां दिङ्मुखेषु विक्षेपलीला वः प्रीतिं करोतु । व्याख्या इभस्य गजस्याऽऽननं मुखमिवाऽऽननं मुखं यस्य तस्य गणेशस्याऽशेषाश्चते विघ्नाः प्रत्यूहाः ‘बिघ्नोंऽतरायः प्रत्यूहः' इत्यमरः । तेषां प्रतिषेधे निवारणे दक्षाणां समर्थानां मन्त्राक्षतानामिवाऽभिमन्त्रिताक्षतानामिव, करशीकराणां वम- यूनां शुण्डोत्क्षिप्ताम्बुकणानां 'शीकरोऽम्बुकणाः स्मृताः' । वमथः करशीकरः।